________________
भानीयकपरप्रणीतः [फा००५५, वि००५९ लाक्षणिक विरोधमिति । लक्ष्यते व्यावृत्तत्वेन वस्तु वस्त्वन्तराद् येन तल्लक्षणमसाधारणं पदार्थानां स्वरूपम् , तत्प्रयोजनं यस्यासौ लाक्षणिकः परस्परपरिहारस्थिततालक्षणो विरोधः;' तद्वशाद्धि पदार्थानां परस्परासंकीर्णस्वरूपलाभः ।
"सदसती तत्त्वम्' इति सच्चासच्चेत्यविपरीतरूपेण गृह्यमाणं तत्त्वमित्यर्थः ।
प्रामाण्यं वस्तुविषयमिति । द्वयोरपि प्रत्यक्षानुमानयोर्वस्तुप्राप्तिपर्यन्तप्रमाणव्यापारत्वाद् वस्तुविषयत्वम् । ग्राह्यभेदस्तहि कथमुक्त आचार्यदिग्नागेनेत्याहअ[36A]र्थभिदां ग्राह्यभेदं जगौ कथितवानाचार्यो दिग्नागः । कथम् ! प्रतिभासस्य भिन्नत्वादिति । प्रतिभासत इति प्रतिभास आकारस्तस्यार्थक्रियाकारित्वेनार्थक्रियाकारित्वाभावेन च प्रत्यक्षग्राह्यस्यानुमानग्राह्यस्य च स्फुटास्फुटत्वे भिन्नत्वात् । एकस्मिन् पुनर्ग्राह्ये तयोः स्फुटास्फुटयोराकारयोरयोगाद असम्भवादिति । यद्यपि वस्तुनिष्ठत्वमुभयोस्तथापि ग्राह्याकारभेदाद् विषयभेदः, एकस्य हि स्वलक्षणं ग्राह्यमपरस्य सामान्यम् । अधिगमरूपत्वमनिष्पन्नम् , अतः साधकतमत्वाभावात् प्रमाणमेव न स्यादु ज्ञानम् । न्या.बि. धों.टी. १.२१ । अविकल्पकमपिज्ञानं विकल्पोत्पत्तिशक्तिमत् । निःशेषव्यवहाराचं तद्वारेण भवत्यतः ॥ तत्त्वसं०१३०६ । प्रत्यक्ष सन्निहितरूपादिमात्रग्राहि विकल्पान्तरेणकत्वाध्यवसाये सति प्रवर्तकम् । प्रवा०भा० प्र०२१६ । १ तस्मान्न स एव विमष्टोऽपि तु परो नोत्पन्नः कारणाभावात् । तदनुपलब्धौ स नष्ट इत्यभिमानमात्रकम् । तेनवंभूते विषये सहानवस्थानलक्षणविरोधव्यवस्था । परमार्थतः कारणभावविशेष एव विरोधः । परस्परपरिहारस्थितलक्षणो विरोध एवमेव । यः क्षणिकं जनयति स नित्यस्वभावं जनयितुमसमर्थः । तेन नित्यत्वस्थानुत्पत्तिरेव । यथा चानित्यत्वमपि [अमिश्रितं?] नित्यत्वेन तथा नीलस्वादयोऽपि परस्परमिति नानयोर्विशेषः । नानयोः परमार्थतः परस्पर विरोधयोर्विशेषः । ततः परस्परं विलक्षणत्वमेव विरोधः कारणवशात् । स च पदार्थस्वरूपमेवान्यथा स्वरूपाभावात् । प्र. वा०भा०प्र०२३४ । २ तुलना-किं पुनस्तत्त्वम् ? सतश्च सद्भावोऽसतश्चासद्भावः । सत्सदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं भवति । असच्चाऽसदिति गृह्यमाणं यथाभूतमविपरीत तत्त्वं भवति । न्यायभा०प्र०२। ३ तत्र प्रत्यक्षमनुमान च प्रमाणे द्वे एव, यस्माद् लक्षणद्वयं प्रमेयम् , न हि स्वसामान्यलक्षणाभ्यामन्यत् प्रमेयमस्ति । स्वलक्षणविषयं हि प्रत्यक्षम् , सामान्य लक्षणविषयमनमानमिति प्रतिपादयिष्यामः । प्रमाणसमु०७० १.२ । ४ मानं द्विविधं विषयद्वविध्यात् शक्त्यशक्तितः । अर्थक्रियायां ... ॥ प्र०वा २.१। ५ विशदप्रतिभासस्य तदार्थस्या विभावनात् । विज्ञानाभासमेदश्च पदार्थानां विशेषकः ॥ प्र०वा २.१३० । इन्द्रियगोवरोार्थों विशदप्रतिभासः । प्र०वा०भा०पू०२४७ । न विकल्पानुविद्धस्यास्ति स्फुटावभासिता। प्र०वा० २.२८३। स्फुटाभत्वादेव च निर्विकल्पकम् । विकल्प विज्ञानं हि सङ्केतकालदृष्टत्वेन वस्तु गृह्णच्छन्दसंसर्गयोग्यं गृह्णीयात् । सङ्केतकालदृष्टत्वं च सङ्केतकालोत्पन्नज्ञानविषयत्वम् । यथा च पूर्वोस्पन्नं विनष्टं ज्ञानं संप्रत्य सत् , तद्वत् पूर्व विनष्टज्ञानविषयत्वमपि संप्रति नास्ति वस्तुनः। तदसद्रूप वस्तुनो गृह्णाद् भसंनिहितार्थप्राहित्वाद् अस्फुटाभं विकल्पकम् । ततः स्फुटाभत्वानिर्विकल्पकम् । न्या०वि०धर्मो टी० १.११ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org