________________
का०पृ०५४,वि०पृ०५८] न्यायमञ्जरीप्रन्थिभकः तत्रानुपलब्धिमात्रस्य व्यभिचारात् सविशेषणया तया साध्यम् , अन्यस्य मानान्तरस्य तथाविधासत्त्वसिद्धाकव्यापारात्; यत्र तु पररूपेणासत्त्वं साध्यते तत्र यदेव प्रत्यक्षं प्रमाणं परस्य रूपं निश्चिनोति चैत्रादेस्तदेव पिशाचादिरूपतामपि तस्य व्यवच्छिनत्ति । यो हि पदार्थो येन रूपेणोपलभ्यते तदेव तस्य रूपम् , चैत्रश्च स्वेन रूपेणोपलभ्यमानः कथं पिशाचः स्यात् ; अतः प्रत्यक्षमहिमत एव तस्यापिशाचरूपत्वसिद्धेः किं दृश्यत्वविशेषणापेक्षया' । यत्र तु संयोगित्वेन विवक्षा 'चैत्राधिष्ठिते प्रदेशे पिशाचो नास्ति' इत्यादौ तत्र संदेह एव युक्तः, परमाण्वादिवददृश्यपदार्थसम्बन्धेऽपि प्रदेशप्रतिपत्तेरविशेषदर्शनात् , न विह तथा । यो ह्यतदात्मा प्रत्यक्षेणोपलभ्यते कथमसौ तदात्मा स्यात् । यथा नीलवस्तु पीतं न भवतीत्यत्र नानुपलब्धेापारः, प्रत्यक्षत एव तत्सिद्धेः । पीतसम्बन्धाभावे तु तस्य निश्चयेऽनुपलब्धेरेव व्यापारः, तथा प्रकृतेऽपीति । [पिशाचेतररूप इति] पिशाचादित[35B]रदूपं स्वभावो यस्य । किंफलं तद्विशेषणम्तदनुपलब्धेर्विशेषणं दृश्यत्वं किंफलं न कचिदुपयुज्यते इत्यर्थः ।
__ अनालम्बनम् असदाकारनिष्ठत्वाद् यथाह धर्मोत्तरः । आत्मालम्बनम् स्वाकारालम्बनं यथाह धर्मकीतिः ।
भेदाभेदे न चिन्त्या चेति । यथा प्रदेशाद् घटविविक्तता किं भिन्ना आहोस्विद् अभिन्ना तद्वद् घटादपि सा किं भिन्ना विविक्तता आहोस्विद् अभिन्नेति ।
कामं विधिविकल्पानामपि मा भूत् प्रमाणतेति । दर्शनानां प्र(प्रा)माण्यदायिनो विकल्पा न स्वतः प्रमाणमिति बौद्धाभिप्रायः । तत्राप्याह नैयायिकः प्रामाण्यं दर्शनानां चेदिति ।
१ न्या०बि०धर्मोण्टीका(२.३६.)गतेयं चर्चास्मिन् संदर्भे रसावहेति मत्वाऽवतायंते यथा-"...परस्परपरिहारवतोयोर्यदैकं दृश्यते तत्र द्वितीयस्य तादात्म्यनिषेधः कार्यः । तादात्म्यनिषेधश्च दृश्यतयाऽभ्युपगतस्य संभवति ।...वस्तुनोऽप्य दृश्यस्य पिशाचादेर्यदि दृश्यघटा. त्मकत्वनिषेधः क्रियते दृश्यात्मकत्वमभ्युपगम्य कर्तव्यः । यद्ययं घटो दृश्यमानः पिशाचात्मा भवेत् पिशाचो दृष्टो भवेत् । न च दृष्टः । तस्मात् न पिशाच इति । दृश्यात्मत्वाभ्युपगमपूर्वको दृश्यमाने घटादौ वस्तुनि वस्तुनोऽवस्तुनो वा दृश्यस्यादृश्यस्य च तादात्म्य प्रतिषेधः। द्र०न्यायकणिका पृ०१२८ । २ ननु यदि कैवल्य प्रदेशस्वरूपं तत्तर्हि सघटेऽपि प्रदेशे विद्यत इति तत्रापि तस्य प्रत्ययस्य सद्भावप्रसङ्गः । अधातिरिक्तः मुखान्तरेणाभाव एवाभ्युपगतो भवतीति चेत्... । रत्नकी०नि० प्र.६७। घटविविक्तता हि भूप्रदेशाद् भिन्ना वा स्यादभिन्ना वा? उम्बेकटी. प्र.४१२। ननु च भोः किं भूतलमेव कैवल्यं किं वा तदतिरेकि ? न्यायसारव्या० पृ० ५६ । द्र० प्रकरणपञ्चिका पृ०११८-१२४ । ३ तस्मादध्यवसायं कुर्वदेव प्रत्यक्ष प्रमाणं भवति । अकृते त्वध्यवसाये नीलबोधरूपत्वेनाऽव्यवस्थापितं भवति विज्ञानम् , तथा च प्रमाणफलम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org