________________
का०पृ०५४,वि०पृ०५७
भश्रीचक्रधरप्रणीतः - [अनुपलब्धेरभावात्मकत्वादिति यथा घटाभावोऽभा]वत्वादनुपलब्ध्या परिच्छिद्यते तथा अनुपलब्धिरप्यभावत्वादेवानुपलब्ध्यन्तरेण परिच्छेद्येति'।
उपलब्धिलक्षणप्राप्तस्येति । उपलब्धेर्लक्षणं जनिका सामग्री, तां प्राप्तो जनकत्वेन तदन्तःप्रविष्ट उपलब्धिलक्षणप्राप्तो दृश्य इत्यर्थः । तत्कालमदृश्यत्वेऽपि एकज्ञानसंसर्गिणो भूतलादेदृश्यत्वाद् योग्यतया च दृश्यत्वसमारोपः । यदि दृश्यस्यानुपलब्ध्या अभावनिश्चयः, नादृश्यस्य, तदा नभःकुसुमादेरदृश्यत्वादनुपलब्ध्या अभावनिश्चयो न स्यादित्याशङ्कयाह-एकान्तानुपलब्धि(ब्धे?)ष्विति । तेष्वपि दृश्यत्वयोग्यताया योगाद् युज्यमानत्वादितरकुसुमवदित्यर्थः । पिशाचादेस्तु दृश्यत्वयोग्यता. ऽनवधारणादिति । तदनवधारणं तु स्वभावविप्रकृष्टत्वेन पिशाचादीनाम् । त्रिविधा चाऽदृश्यता भवति-स्वभावविप्रकर्षेण यथा पिशाचादीनाम् , देशविप्रकर्षेण यथा मेादीनाम् , कालविप्रकर्षेण यथा रामादीनाम् । अतो नास्तित्वनिश्चयस्तत्र कर्तुमशक्यः, संदेह एव तत्रेत्यर्थः । यदि तर्हि अदृश्यस्यानुपलब्ध्या अभावनिश्चयो न सिद्धचति, तदा 'अपिशाचोऽयं चैत्रः' इत्यस्यामपि प्रतीतावभावनिश्चयो न स्यात् , अदृश्यत्वात् पिशाचस्य, ततश्च[35 A] पिशाचापिशाचरूपतया चैत्रं प्रति संदेह एव स्यादित्याशङ्कयाहतत्रापि त्वपिशाचोऽयमिति । अयमाशयः-यत्र पदार्थस्य स्वरूपेणासत्त्वं साध्यते . १ नन्वयमनुपलम्भः प्रतीतो वा स्यादभावज्ञाने हेतुरप्रतीतो वा ? न तावत् प्रतीतोऽनवस्थानातात् । सोऽपि ह्युरलम्भाऽभावरूपत्वादनुपलम्भान्तरेण प्रमातव्यः, एवमनुपलम्भान्तरमपीत्यनवस्थानात् । न्यायकणिका पृ०६९ । अत्रानुपलब्धेलिङ्गादसत्तायामुपलब्धेर. भावोऽप्यन्यया अनुपलब्ध्या साध्य इत्यनवस्थानादप्रतिपत्तिः स्यात् । प्र० वा स्वो वृ० पृ० ३। २ अविद्यमानोऽपि च घटादिरेकज्ञानसंसर्गिणि भूतले भासमाने समग्रसामग्रीको ज्ञायमानो दृश्यतया संभावितत्वात् प्रत्यक्ष उक्तः ।...केवलमेकज्ञानसंसर्गिणि दृश्यमाने घटो यदि भवेद् दृश्य एव भवेदिति दृश्यः संभावितः । न्या०बि०धर्मो०टी० २.२८ । उपलब्धिलक्षणप्राप्तस्येति, उपलब्धिर्ज्ञानं तस्या लक्षणानि कारणानि चक्षुरादीनि । तैपिलब्धिलक्ष्यते जन्यत इति यावत् । तानि प्राप्तो जनकत्वेनोपलब्धिकारणान्तर्भावादुपलब्धिलक्षणप्राप्तो दृश्य इत्यर्थः । स्याद्वादरत्ना० ३.९२। (प्र०६१०)। ३ अन्यथा चानुपलब्धिलक्षणप्राप्तेष देश-काल-स्व. भावविप्रकृष्टेष्वर्थेष्वात्मप्रत्यक्षनिवृत्तरभावनिश्चयाभावात् । न्या०बि०२.२७। ४ पिशाचादीनां हि स्वभावो नोपलभ्यतेऽथ च ते नास्तित्वेनावगन्तुं न शक्यन्ते । कथं पुनर्यो घटादिर्नास्ति स उपलब्धिलक्षण प्राप्तस्तत्प्राप्तत्वे कथं तस्यासत्त्वमिति चेत् । उच्यते । आरोप्यैतद्रपं निषिध्यते । सर्वत्रारोपितरूपविशेषत्वान्निषेधस्य। यथा नायं गौर इति। न ह्यत्रैतच्छक्यं वा सति गौरत्वे न निषेधो निषेवे न वा गौरस्वम् । नम्वेवमहश्यमपि पिशाचादिकं दृश्यरूपतयारोप्य प्रतिषिध्यतामिति चेत् । नैवम् । आरोपयोग्यत्वं हि यस्यास्ति तस्यैवारोपः । यश्चार्थों विद्यमानो नियमेनोपलभ्येत स एवारोपयोग्यो न तु पिशाचादिः । स्याद्वादत्ना० ३.९२ (पृ० ६१०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org