________________
का०पृ०५३, वि०पृ०५७] न्यायमञ्जरीग्रन्थिमङ्गः तादृशश्च धूमानुपलम्भेनावश्यमभावसिद्धेः' । व्यापकानुपलब्धिरिति । शिशपास्वरूपप्रतिबद्धो धर्मो वृक्षत्वाख्यस्तस्य व्यापकस्तस्यानुपलम्भाच्छिशपाया अभावः । स्वभावविरुद्धोपलब्धिरिति प्रतिषेध्यस्य शीतस्पर्शस्य स्वभावेन स्वात्मना यो विरुद्धोऽग्निस्तस्योपलब्धेः शीतस्पर्शाभावः । स्वभावविरुद्धकार्योपलब्धिरिति । [नि]
ध्यस्य शीतस्पर्शस्य स्वभावेनात्मना यो विरुद्धोऽग्निस्तस्य कार्य धूमस्तदुप[लम्भा]च्छीतस्पर्शाभावः । विरुद्धव्याप्तोपलब्धिरिति । ध्रुवभावित्वस्य निषेध्यस्य [विरुद्धं हे]त्वन्तरापेक्षित्वम् तेन व्याप्तस्य नाशस्योपलम्भाद् ध्रुवभावित्वाभावः । ध्रुवभावि त्वस्य हेत्वन्त]रापेक्षित्वं .विरुद्धम् । न हि लाक्षादिद्रव्यान्तरापेक्षो [वर्णो ध्रुवो] भवतीति । ध्रुवमवश्यं भवतीति ध्रुवभावी भूतस्यापि कृतकस्यापि यस्यावश्यं [33 B] ........
१ कार्यानुपलब्धिय॑था-नेहाप्रतिबद्धसामर्थ्यानि धूमकारणानि सन्ति, धूमाभावादिति । न्या०बि० २.३२ । यथेति । इहेति धर्मी । अप्रतिबद्धम् अनुपहतं धूमजननं प्रति सामर्थ्य येषां तान्यप्रतिबद्धसामर्थ्यानि न सन्तीतिसाध्यम् । धूमाभावादिति हेतुः । कारणानि च नावश्यं कार्यन्ति भवन्तीति कार्यादर्शनादप्रतिबद्धसामर्थ्यानामेवाभावः साध्यः, न त्वन्येषाम् । न्या०बि०धर्मो०टी० २.३२ । २ इयमप्यनुपलब्धिाप्यस्य शिशपात्वस्यादृश्यस्याभावे प्रयुज्यते । उपलब्धिलक्षण प्राप्ते तु व्याप्ये दृश्यानुपलब्धिर्गमिका । तत्र यदा पूर्वापरावुपश्लिष्टी समुन्नतौ देशौ भवतः, तयोरेकस्तरुगहनोपेतोऽपर चैकशिलाघटितो निवृक्षकक्षकः । द्रष्टापि तत्स्थान् वृक्षान् पश्यन्नपि शिशपादिभेदं यो न विवेचयति, तस्य वृक्षत्वं प्रत्यक्षम् अप्रत्यक्षं तु शिशपात्वम् । स हि मिवृक्ष एकशिलाघटिते वृक्षाभावं दृश्यत्याद् दृश्यानुपलम्भादवस्यति । शिशपात्वाभावं तु व्यापकस्य वृक्षत्वस्याभावादिति । तादृशे विषयेऽस्या अभावसाधनाय प्रयोगः । न्या०बि०धर्मो०टी० २.३३ । ३ इयं चानुपलब्धिस्तत्र प्रयोकव्या यत्र शोतस्पर्शोऽदृश्यः, दृश्ये दृश्यानुपलब्धिप्रयोगात् । तस्माद् यत्र वर्णविशेषाद् वहिर्दृश्यः, शीतस्पर्शो दूरस्थत्वात् सन्मप्यदृश्यः, तत्रास्याः प्रयोगः । न्या०बि०धर्मोन्टी० २.३४ १ विरुद्धव्याप्तोपलब्धिर्यथा-न ध्रुवभावी भूतस्यापि भावस्य विनाशः, हेत्वन्तरापेक्षा णादिति । न्या०बि०२.३६। प्रतिषेध्यस्य यद् विरुद्धं तेन व्याप्तस्य धर्मान्तरस्य उपलब्धिरुदाहर्तव्या । यथेति । ध्रुवम् अवश्यं भवतीति ध्रुवभावी, नेति ध्रुवभावित्वनिषेधः साध्यः । विनाशो धर्मी । भूतस्यापि भावस्येति धर्मिविशेषणम् । भूतस्य जातस्यापि विनश्वरः स्वभावो नावश्यंभावी, किमुताजातस्येति अपिशब्दार्थः । जनकाद्धेतोरन्यो हेतुः हेत्वन्तरं मुद्रादि । तदा पेक्षते विनश्वरः । तस्यापेक्षणादिति हेतुः । हेत्वन्तरापेक्षणं नामाध्रुवमावित्वेन व्याप्तं यथा वाससि रागस्य रन्जनादिहेत्वन्तरापेक्षणमध्रुवभावित्वेन व्याप्तम् । ध्रुवभावित्वविरुद्धं चाध्रुवभावित्वम । विनाशश्च विनश्वरस्वभावात्मा हेत्वन्तरापेक्ष इष्टः । ततो विरुद्धव्याप्तहेत्वन्तरापेक्षणदर्शनाद् ध्रवभावित्वनिषेधः । न्या०बि०धर्मो०टी० २.३६ । ५ पत्र ३४ नोपलभ्यते । अन्याश्चानलब्धयो न्यायबिन्दौ यथा-"कार्यविरुद्वोपलब्धिर्यथा-नेहाप्रतिबद्धसामर्थ्यानि शीतकारणानि सन्ति वोरेति । व्यापकविरुद्धोपलब्धियथा -नात्र तुषारस्पर्शो वहेरिति । कारणानुपलब्धिर्यथा-नात्र धूमो वन्यभावादिति । कारणविरुद्धोपलब्धियथा-नास्य रोमहर्षादिविशेषाः, सन्निहितदहनविशेषत्वादिति । कारणविरुद्धकार्योपलब्धिर्यथा -न रोमहर्षादिविशेषयुक्तपुरुषवानयं प्रदेशः, धूमादिति ।" न्या०बि० २.३७-४१. तासां विस्तारस्तु धर्मोत्तरटीकातो विज्ञेयः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org