________________
२८
___भट्टश्रीचक्रधरप्रणीतः [का०४०५०, वि०पृ०५३ भावग्रहणसिद्धिरिति । यदि ह्यन्येऽपि पदार्था दृष्टाः स्युः तदा कथं स्वरूपमात्रेण दृष्टः स्यात् । न ह्यन्यैः सह दृष्टः स्वरूपमात्रेण दृष्टो भवति ।
नैष वस्त्वन्तराभावसंवित्त्यनुगमाद् विनेति' । यावद् वस्त्वन्तराभावसंवित्तिमसौ नानुगच्छति नापेक्षते तावदसौ न भवतीत्यर्थः ।
अभावान्तरकरणे त्वनवस्थेति । तदपि ह्यभावान्तरं क्रियमाणं घटविरोधित्वात् किश्चित्करमभ्युपेतव्यं, तच्च य[प]भावान्तरं कुर्यात् तदाऽनवस्थेति ।।
अथाप्यनवरात्माऽसौ कृतं प्रलयहेतुभिः, नित्यस्य नाशयितुमशक्यत्वात् । मूर्तिरात्मनीति महत्परिमाणादन्यत् परिमाणान्तरम् ।
भावो भावादिवान्यस्मादिति । यथा भावोऽन्यस्माद् भावादितरेतराभाववशाद भिधते तथा इतरेतराभावा[32 B][द्भिद्यते भावो न वा ? न भिद्यते चेद् भावाभावसङ्करप्रसङ्गः । अथ भि[द्यते] [स्वतः], अभावान्तरवशात् [वा] । स्वतश्चेद् भावानामपि स्वत एवास्तु [भेदः] । अभावान्तरवशाच्चेदन[वस्था]। [अ] सङ्कीर्णाभाववशाद् भावानामसङ्करस्तद्वशाच्चाभावासङ्कर इत्याशङ्कयाह-भवेदन्योन्यसंश्रयमिति । अभावान्तरजन्यत्वे च परस्परम[न्या]सङ्करस्य, तस्याप्यभावान्तरजन्या [असङ्करता] चेदनवस्था दुरुत्तरेति । तदेवाह-अभावान्तरजन्या चेदनवस्था दुरुत्तरेति ।
न वै शब्दानुसारेण वस्तुस्थितिरुपेयते शब्दानामर्थासंस्पर्शित्वात् ।
स्वभावानुपलब्धिरिति । घटस्य प्रतिषेध्यस्य दृश्यस्य यः स्वभावः आत्मीयं रूपं तस्यानुपलब्धिः । अत्र च दृश्यस्येति विशेषणं कर्तव्यमन्यथा सन्तमसव्यवस्थितस्य घटादेरनुपलब्धिमात्रेणाभावव्यवहारः स्यात् स्वभावासिद्धेः । कार्यानुपलब्धिरिति । ननु च नावश्यं कारणानि कार्यवन्ति भवन्तीति वह्निश्च[33 A] स्याद् धूमश्च न भवेदिति तन्नेत्याह-निरपवादेति धूमजन्मन्यप्रतिहतसामर्थ्या इत्यर्थः ।
१ प्रलोभ्वा०अभाव० १५ । २ प्रलोभ्वा०अभाव० ५। मूर्तिः काठिन्यम् । तत्त्वसं०पं० पृ०४७२ । ३ तुलना-"किञ्च भावाभावयोर्भेदो नाभावनिबन्धनोऽमवस्थाप्रसङ्गात् । भथ स्वरूपेण भेदः, तथा भावानामपि स स्यादिति किमभावेन कल्पितेन ।" प्रमाणवा. कर्ण० पृ०३१ । “यदि चेतरेतराभाववशात् घटः पटादिभ्यो व्यावर्तेत तर्हि इतरेतराभावोऽपि भावादभावान्तराच्च प्रागभावादेः किं स्वतो व्यावर्तेत, अन्यतो वा?" प्रमेयक प्र०२०८ । स्या०र० पृ०५८१ । न्यायकुमुद० पृ०४७४। ४ तत्र वाच्येषु पुरुषायत्तवृत्तीमा शब्दानामवस्तुसंदर्शिनां यथाभ्यास विकल्पप्रबोधहेतूनां प्रवृत्तिचिन्ता, तदरशाद वस्तुव्यवस्थापनं च केवलं जाड्यख्यापनम् । प्रमाणवा०स्वो०वृ० पृ०२३ । ५ स्वभावानुपलब्धियथा-नात्र धूम उपलब्धिलक्षण प्राप्तस्यानुपलब्धेरिति। न्यायबि० २.३१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org