________________
का०पृ०५०, वि००५३] न्यायमञ्जरीप्रन्थिभङ्गः
गृहीत्वा व[ 31 B]स्तुसद्भावम्' । वस्तुनः शुद्धस्य भूतलस्य सत्ताम् । स्मृत्वा च प्रतियोगिनं घटम् । निमीलिताक्षस्यापि भावात् सतोऽप्यक्षस्यानपेक्षणम् ।।
गौरमूलकमुपलब्धवत इति । गौरमूलकाख्यो ग्रन्थकृदभिजनग्रामः। अनैकान्तिकत्वात् सत्यपि घटे भूतलस्योपलम्भात् ।
__ अनुमानान्तरनिबन्धने तु तद्ग्रहणेऽनवस्थेति । येनापि हि लिङ्गेन घटाभावं गृहीत्वा तस्य घटाभावस्य घटादर्शनेन सह सम्बन्धो गृह्यते, तेनापि घटाभावेन सह गृहीतसम्बन्धेनैव सता घटाभावः प्रतिपाद्यः, अतस्तस्याप्यनुमानान्तरगृहीतेनाभावेन सह सम्बन्धो ग्राह्यः, तस्याप्यनुमानान्तरगृहीतेनेत्यनवस्था ।
सम्बद्धमपि न सर्व चाक्षुषमिति । चक्षुरश्मीनां मूर्तत्वादवश्यंभाव्याकाशेन संयोगः, सर्वमूर्तद्रव्यसंयोगित्वात् तस्य ।
तदिदमसिद्धमिति । मीमांसकानां हि समवायोऽसिद्धः, स कथं तेषां दृष्टान्तीभवेत् । तथाहि त आहुः--
"न चाप्ययुतसिद्धानां सम्बन्धित्वेन कल्पना ।
नानिष्पन्नस्य सम्बन्धो निष्पत्तौ युतसिद्धता ॥” इत्यादि । [श्लो०वा०प्रत्यक्ष का०१४६]
चक्षुरूपसन्निकर्षेऽपि समानो दोषः। रसेनापि सह चक्षुषः संयुक्तसमवायसम्भवात् ।
योग्यता वे[ 32 A ]ति । नियतार्थविज्ञानहेतुरतीन्द्रियो नियतविज्ञानात्मककार्यानुमेयो योग्यतात्मकः सम्बन्धः ।।
नास्त्येवेत्येष वोच्यताम्-नास्त्येवैष इति वोच्यतामिति सम्बन्धः ।
मेचकबुद्धयेति । मयूरग्रीवाया वर्णे यथा व्यक्तितिरस्कृतानेकवर्णसम्भवे मेचकव्यवहार एवं व्यक्तितिरस्कृताखिलाभावग्राहिण्यामपि बुद्धौ मेचकतामात्रग्रहणेन तदन्या
१ प्रलोव्वाअभाव०२७। २ न चैतदनुमानत्वं सम्भाति । कथं हि घटेनापि सह दृष्टं भूतलमनेकान्तिकत्वात् तदभावमनुमापयेदिति । न्यायरत्ना०३३। न भूतलम् ; सत्यपि घटे प्रसङ्गात् । शास्त्रदी० पृ०३२५ । ३. ...निवृत्तेश्चाभावात्मिकाया न प्रत्यक्षेण प्रहण सम्भवति। निवृत्त्यन्तरेण तदनुमाने तदपि निवृत्तिरूपत्वाद् निवृत्त्यन्तरेणानुमातव्यम् , तदपि तथेत्यनवस्थापत्तिः । शास्त्रदी० पृ०३४२ घटानुपलब्धिस्तहि लिङ्गमस्तु... । अथ घटोपलब्ध्यभावोऽनुपलब्धिः तस्याप्यभावस्यानुमानवेलायामन्वयग्रहणवेलायां चाऽनुपलब्ध्यन्तरापेक्षा, तस्यामपि तथेत्यनुपलब्ध्यानन्त्यादनवस्था, तथाऽन्वयवेलायां लिङ्गयभावेऽपि । एवं चावीतहेतुरपि निराकर्तव्यः, दर्शननिवृत्त्या हि दृश्यनिवृत्तिरनुमातव्या, दर्शननिवृत्तिरपि अभावरूपत्वाद् निवृत्त्यन्तरेणानुमातव्या, इत्यनवस्था । न्यायरत्ना० ३८-४१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org