________________
३२
भट्टश्रीचक्रधरप्रणीतः [का.पृ०४५, विपृ०४८ एतेन पण्डितमन्य इति आनन्दवर्धनाचार्य ध्वनिकारं परामृशति । स हि यस्मिन् काव्यप्रभेदे वाच्यवाचकौ प्रकरणादिसहायौ' वाच्यदशोत्तीर्णस्य प्रतीयमानस्य प्राधान्येन स्थि[21A]तस्य व्यञ्जकता प्रतिपद्यते तं काव्यप्रभेदं ध्वनिमाह । यथा च व्याकरणमूलत्वात् सर्वविद्यानां प्रथमैर्विद्वद्भिर्वैयाकरणैः श्रूयमाणेषु वर्णेषु स्फोटाभिव्यञ्जकत्वात् ध्वनिशब्दः प्रयुक्तस्तथाऽमुनापि तादृशे प्रभेदे व्यञ्जकत्वसामान्याद् ध्वनिशब्द एव प्रयुक्तः । आह च
“यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थी । व्यक्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः" ॥इति ॥ [ध्वन्या० १.१३] अस्योदाहरणं-भम धम्मिा इत्यादि । भम धम्मिअ ! वीसत्थो सो सुणो अज मारिओ तेण । गोलाणइकच्छकुडङ्गवासिणा दरिअसीहेण ॥ [गाथासप्तशती, २.७५] भ्रम धार्मिक ! विश्रब्धः स शुनिकोऽद्य मारितस्तेन । गोलानदीकच्छलताकुञ्जवासिना दृप्तसिंहेन ॥
कच्छः कूल भागः । कुडङ्ग लतागहनम् । अत्र च यद्यपि कदाचिदविनयवत्या चौर्य सुरतक्रीडासु प्रच्छायतया सर्वस्वभूतानि गोदावरीकुलवर्तीनि लतागेहानि प्रत्यहं पुष्पावचयार्थमागतेन धार्मिकेण चोर्यमाणसौभाग्यानि रक्षन्त्या वैदग्ध्याद् भयोपन्यासपूर्व । तत्र तस्य भ्रमणपरिहारायैवमुक्तम्, तथाप्यञ्जसा प्रव्रजितस्य शुनो भय[29B]माशङ्कमानस्य सिंहेन तस्य व्यापादनमुपन्यस्य भयनिवृत्ति कृत्वा भ्रमणं विधीयत इति विधेर्वाच्यता । अथ च विधिरूपवाच्यार्थोत्थापनाङ्गभूतेन दृप्तसिंहकर्तृकश्वव्यापादनलक्षणेन वाच्येनार्थात्मना वाक्येनैवमर्थाभिधानव्यवधानेन व्यञ्जकेनामुना सम्भूय द्वाभ्यां प्रकरणाभिधातृतिपत्तिविशेषपर्यालोचनसहायाभ्यां 'तत्र मा भ्रमीः' इति निषेधावगतिः क्रियते, विधि
१ संसों विप्रयोगश्च साहचर्य विरोधिता । अर्थः प्रकरणं लिङ्ग शब्दस्यान्यस्य संनिधिः ।। सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥ वा०प० २.३१५-१६ । २ यत्रार्थों वाच्यविशेषः वाचविशेषः शब्दो वा तमर्थ व्यक्तः, स काव्यविशेषो ध्वनिरिति । अनेन वाच्यवाचकचारुत्वहेतुभ्य उपमादिभ्योऽनुप्रासादिभ्यश्च विभक्त एव ध्वनेविषय इति दर्शितम् । ध्वन्या० १.१३ । ३ तुलना'प्रथमे हि विद्वांसो वैयाकरणाः, व्याकरणमूलत्वात् सर्वविद्यानाम् । ते च श्रयमाणेषु वणेष वनिरिति व्यवहरन्ति । तथैवान्यैस्तन्मतानुसारिभिः सूरिभिः काव्यतत्त्वार्थदर्शिभि
च्यवाचकम्मिश्रः शब्दात्मा काव्यमिति व्यादेश्यो व्यजकत्व जाम्याद ध्वनिरिति उक्तः । ध्वन्या० पृ०१४१-१४२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org