________________
Frago४५, वि०४८] न्यायमारम्भिक रुदेश्यो यजिस्वमात्रेण, न तु विशिष्टमियोगसाधनत्वविशिष्टः, परार्थस्य सतः प्राधान्येनोद्देष्टुमशक्यत्वाद् विशिष्टानुवादे वाक्यभेदप्रसङ्गाच्च । तस्माद् यथोदेश(स्य.)स्या महादेरेकत्वस्याविवक्षा प्रागवद् विशेषश्चोद्देश्यत्वादेवोभयपदविशेष्यत्वाभावः । तथा च निर्विशेषणं यजिमात्रमु[27B ]दिश्य प्रयाजादिधर्मविधानम् । तच्च यजिमात्रं प्राकतवैकृतेषु सर्वयागेषु समानमिति सर्व'.... .... .... व्येत्यतिदेशकल्पनया विकृतिषु धर्मप्राप्तिश्चिन्तनीया । अतश्च नारब्धव्य उत्तरः षदकः । अथ नु .... .... न तदा प्रतिकरणमपूर्वशब्दाभिधेयानां कार्याणां नियोगानां भेदाद् ये धर्मा येन कार्येण .... शब्दान्तरादिप्रमाणवशासादित भेदत्वेन भिन्नत्वात् । अतश्च दर्शपूर्णमासकार्यसम्बन्धित्वेन ते .... व्यः उत्तरः षट्कः अतिदेशतश्च प्राप्तौ । उक्तम्-'प्रकृतिवद् विकृतिः कर्तव्या' इति । तत्र यजौ श्रयन्ते .... त्वाच्चापूर्वस्य तेनैव प्रथमं धर्माणां सम्बन्धः स एवास्मानं साधिकारं साधयितुं करणमि .... [28 A] त्यादिकृतः पश्चात् परस्परसम्बन्ध इति किं यथोपदेश कार्यमथ यथाकार्यमुपदेश इ[ति]. .... शयः । यथाकार्यमुपदेशे हि व्यवस्था धर्माणां तत्र यत्र न विहितास्तत्र कार्योपकाराकाक्षिा] .... इति चोदकस्तं पदार्थमसावाक्षेप्तुमर्हति येन कार्यस्योपकारः कश्चित् कर्तुं शक्यते न च .... लकृतेनावघातेन कश्चिदुपकारो जनयितुं शक्यते प्रकृताविव दृष्टस्य तुषकणविमो [क] .... णाः कृष्णलास्तेषामवघातेन किमिव क्रियेत ? अतः प्राप्त्यभावादेव कृष्णलेष्वर्थलोपादक[रणम् ?] ... भावे कीदृशी बाधना ।
अस्खण्डमण्डलविध्यन्त[काण्ड?]पाप्तेन ह्यशांशिकया चोदकः प्रवर्सत इति । म.....[28 B] [अखण्डमण्डलविध्यन्त[काण्ड]प्राप्तेरिति तत्र ग्रन्थकृता तावद नेनैवामिप्रायेणातिप्रसङ्गमाशय अलमनयेत्यादिनोपसंहृतम् । इदं त्वत्रोत्तरम-प्रकृतौ विधिदृष्टादृष्टोपकारवत्साधनसिया सम्पन्नस्तत्रायमपि वैकृतो विधिरुपकारमेबापेक्षते न तु तज्जनकान् पदार्थान् , प्राकृतस्य विधेरुपकारापेक्षित्वदर्शनात् । स च प्राकृत उपकारोऽपेक्षासमये विभागेनापेक्षितुं न शक्यते । उपकारजनका हि विभक्ताः, न तु सैजन्यते यो महोपकारः । अतस्तेन महोपकारेणाविभक्तेन कथं विभागेन पदार्था आक्षेप्तुं पायेन्ते ? यथा वनशब्दादविमागेन वृक्षाणां प्रतीतौ न धवानथिना तत्प्रतीतिसमये धवत्यागः शक्यक्रियः; एवमविभक्तोपकारापेक्षातो धर्माणामाक्षेपे नानुपयुक्तानां परित्यागः शक्यकिय इति । इममेव चार्थ हृदि विनिवेश्याह-न ह्यशांशयिक(शांशिक)या चोदकः प्रवर्तत इति ।
१ अष्टाविंशतितमं पत्रमत्र खण्डितमस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org