________________
भट्टश्रीचक्रधरप्रणीतः का००४५, वि०१०४८ सया प्रकरण बाध्यत इति विप्रकर्षः । क्रमप्रकरणयोविरोधे यथा, राजसूयप्रकरणेऽभिषेचनीयस्य क्रमे शौनःशेपाद्युपाख्यानमाम्नातम् , तम्कि प्रकरणवशात् सर्वार्थमाहोस्वित् क्रमाम्नानादभिषेचनीयार्थमिति ! तत्र क्रमाम्नातेन यावत् सन्निधानबलोद्भूताकाङ्क्षाकृतैकवाक्यताऽभिषेचनीयेन सहास्य कल्प्यतेऽभिषेचनीयस्य पृथक्प्रयोजकशक्तिबललब्धप्रकरणभाव कल्पनया तावत् सप्तयैवाधिकारविधेः प्रकरणशक्त्यैकवाक्यतेति विप्रकर्षः । क्रमसमाख्ययोर्विरोधे यथा पौरोडाशिकमिति समा[26B ]म्नाते काण्डे सान्नाय्यक्रमे 'शुन्धध्वं दैव्याय कर्मणे' इति तै० सं० १.१.३.१] शुन्धनार्थो मन्त्रश्चाम्नातः । स किं समाख्यासामर्थ्यात् पुरोडाशपात्राणां शुन्धने विनियोक्तव्योऽध सान्नाय्यपात्राणां सन्निधेरिति ? तत्र यावत् पौरोडाशिकमिति समाख्याबलात् पुरोडाशसन्निधिं धर्माणां कल्पयित्वा पुगेडाशार्थत्वं प्रतिपाद्यते तावत् कृप्तसान्नाय्यसन्निधानबलेनैव सान्नाय्यार्थत्वस्य प्राप्तत्वान्न समाख्यया सन्निधिकल्पनाद्वारेण पुरोडाशार्थत्वकल्पनमिति विप्रकर्षः। सान्नाय्ये दधिपयसी ।
अथ तत्कल्पने तेषां विरान्तिकवृत्तितेति । लिङ्गं हि साक्षादेव श्रुति कल्पयति, वाक्यं पुनलिङ्गमभिधानसामर्थ्यमकल्पयित्वा न श्रुतिकल्पनायां प्रभवतीति दूगन्तिकवृत्तिता; एतच्च प्राक् स्पष्टीकृतमेव ।
वैकृतस्य विधेः काचिदाकाङ्क्षति । 'प्राकृतविधिना दृष्टादृष्टसाधनोपकारवता सम्पन्नम् , अहमपि च विधिः, मयापि च तथाविधसाधनोपकारवता सम्पत्तव्यम्' इति याऽऽकाङ्क्षा सा चो[27A]दको धर्माक्षेपकः पदार्थः ।
यथोपदेश कार्यमिति । अस्यार्थः-किं धर्मा यथोपदेशं ये यत्सम्बन्धेन इत्यादिभिः प्रमाणैर पदिष्टास्ते तैः सम्बन्धमनुभूय पश्चात् कार्येण नियोगेन सम्बध्यन्ते आहोस्विद् यथाकार्यमुपदेशः प्रथमं कार्येण नियोगेन सम्बध्य पश्चाच्छ्रत्यादिकृतस्तेषां परस्परसम्बन्ध इति । अनेन च किं यजिप्रयुक्ता धर्मा उतापूर्वप्रयुक्ता इति भाष्यकृता यः संशयः सप्तमाघे [७.१.१] कृतः स व्याख्यातः । तत्र यदि यथोपदेशं कार्यमिति पक्षः तदा प्रथमं तावद् यजिना सर्वे धर्माः सम्बन्ध्यन्ते तत्सम्बन्धविधानार्थं च यजि
१ ऐतरेयब्राह्मणे पञ्चमाञ्चिकायां हरिश्चन्द्रोपाख्यानरूपोऽयमितिहासः स एव शौनश्शेर इत्याख्यायते । २ द्र० बलाबलाधिकरणम् (तन्त्रवा० ३.३.७)। ३ उपदेशो हि प्रन्यसन्दर्भः । स चार्थान्तरान्वितं विध्यर्थ कार्यतया प्रतिपादयति । स तावत्तथाभूत एवौपदेशिकः । तेनापि यदपर्यवस्यताऽऽक्षिप्यते तदप्यौपदेशिकम् । तेन विकृतावपि विध्यबैंकल्पित्तस्योपकारस्य भवत्यौपदेशिकत्वम् । न्या०र०मा०प्र० २६५-६९। ४ तत्रेद विवामंते, कि यजिप्रयु का एते धर्माः-कथं यजिर्गुणवान् स्यादित्येवमर्थमाम्मायन्से-माहोस्विदपूर्वप्रयुकाः-कमर्व स्यादिति । शाबरभा० ७.१.१. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org