________________
का०पू०४४, वि०पृ०४७] न्यायमञ्जरीग्रन्थिभङ्गः विरोधे यथा 'निवेशनः सङ्गमनो वसूनाम्' इति[मै० सं० २. ७. १२]मन्त्रो लिङ्गादभिधानसामर्थ्यादिन्द्रप्रकाशनसमर्थ इति यावदिन्द्रोपस्थाने विनियुज्यते तावच्छृत्या 'ऐन्द्रया गार्हपत्यमुपतिष्ठते' इति[ मै० सं० ३.२.४ ] गार्हपत्ये विनियोगाल्लिङ्गं बाध्य[25A] ते, क्लप्तस्य कल्प्यमानापेक्षया बलवत्त्वात् । उपतिष्ठत इति 'उपान्मन्त्रकरणे' इति [पाणिनि १. ३. २५] आत्मनेपदप्रयोगादभिधानं विवक्षितम्, तत्प्रत्येव मन्त्रस्य करणत्वात् । तेनोपतिष्ठेताभिदध्यात्. स्तुवीतेत्यर्थः । लिङ्गवाक्ययोर्विरोधे यथा 'स्योनं ते सदनं कृणोमि, घृतस्य धारया सुशेवं कल्पयामि, तस्मिन् सीद अमृते प्रतितिष्ठ, व्रीहीणां मेध सुमनस्यमानः' इति तै० ब्रा० ३.७.५] मन्त्रं प्रति संशयः-किं सकलोऽयं मन्त्रः पुरोडाशार्थे बर्हिष उपस्तरणे पुरोडाशासादने च प्रयोक्तव्यः, उत कल्पयाम्यन्तः उपस्तरणे 'तस्मिन् सीद' इत्यादिः पुरोडाशासादन इति ? सर्वेषां पदानामस्मिन् मन्त्रे साकाङ्क्षत्वादेकवाक्यत्वादुभयत्र प्रयोग इति वाक्यसामर्थ्यात् प्राप्तः, लिङ्गस्याभिधानसामर्थ्यस्य बलीयस्त्वात् कल्पयाम्यन्तस्योपस्तरणे विनियोगोऽपरस्यासादने । 'तस्मिन् सीद' इत्यादेरप्येकवाक्यत्वाद् यावदुपस्तरणप्रकाशनसामर्थ्य कल्प्य[25B]ते तावत् क्लप्तसामर्थ्येन कल्पयाम्यन्तेनोपस्तरणस्य प्रकाशितत्वान्न कल्पनां लभते; एवं 'स्योनं ते सदनं कृणोमि' इत्यादेरप्येकवाक्यताबलाद् यावत् पुरोडाशासादनप्रकाशनसामर्थ्य कल्प्यते तावत् 'तस्मिन् सीद' इति क्लुप्तपुरोडाशासादनप्रकाशनसामोपहतत्वान्नैव कल्पनासम्भवः । एकवाक्यतया ह्यभिधानसामर्थ्य यावत् कल्प्यते तावत् क्लुप्तेन बाधितत्वाद् विप्रकर्षः । वाक्यप्रकरणयोर्विरोधे यथा-'अग्निरिदं हविरजुषतावीवृधत महो ज्यायोsक्रात, अग्निषोमाविदं हविरजुषेतामवीवृधेतां महो ज्यायोऽकाताम्, इन्द्राग्नी इदं हविरजुषेतामवीवृधेता महो ज्यायोऽक्राताम्' [तै० ब्रा० ३.५.१०.३, आश्व० श्री. १.९.९] इत्यादि सूक्तवाकनिगदः । तत्र पौर्णमासीदेवता अमावास्यादेवताश्च समाम्नाताः परस्परेणैकवाक्यता नाभ्युपयन्ति । तत्र लिङ्गसामर्थ्यात् पौर्णमासीप्रयोगादिन्द्राग्नीशब्दः उत्क्रष्टव्योऽमावास्यायां च प्रयोक्तव्यः पौर्णमास्यामिन्द्राग्न्योर्देवतयोरभावात् कं प्रकाशयत्वेष शब्दस्तत्र प्रयुज्यमान इति । इतिकृत्वा तत उत्कृष्य तत्र तयोर्देवतयोरभा[26A][वादसान्नाय्ययाजिनः सम्भवात् तत्रामावास्यायां प्रयोत्तव्यः । तस्य यः शेषः 'अवीवृधेतां महो ज्यायोऽक्राताम्' इति स किं यावत्कृत्वः समाम्नातः तावत्कृत्व उभयोः पौर्णमास्यामावास्ययोः प्रयोक्तव्यः प्रकरणस्य बलवत्त्वात्, अथ येनेन्द्राग्नीशब्देन सहैकवाक्यतां प्राप्तो यत्रासौ तत्रैव प्रयोक्तव्यो वाक्यस्य बलीयस्त्वादिति ? तत्र प्रकरणवशाद् यावत् सर्वैः सहैकवाक्यता कल्प्यते तावदिन्द्राग्नीशब्देन क्लुप्तयैकवाक्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org