________________
૨૮
[ का०पृ०४४, वि०पृ० ४७
दीनां प्रतिपाद्यतेऽत्यन्तपारार्थ्य लक्षणस्तादर्थ्येनानुष्ठानपर्यन्तः स नियोगगर्भो नियोगापेक्षाकृतः, न पुनः श्रुत्यादीनामेव तथाविधे तस्मिन् सामर्थ्यम् । 'सक्तून् जुहोति [ ] इत्यादौ होमकृतस्य सक्तुसंस्कारस्य नियोगेनानपेक्षितत्वात् सत्यपि द्वितीया श्रुतिर्न होमस्य सक्त्वर्थतामनुष्ठानपर्यन्तां दर्शयति । 'गोदोहनेने पशुकामस्य प्रणयेत्' इति [आप० श्र० १. १६. ३] प्रणयनं प्रति श्रुतापि गोदोहनस्य करणता नियोगेन तथानपेक्षणात् फलं प्रति नीयते । 'कृष्णलमवहन्ति' इत्यत्र तु प्रत्युतावघातार्थता कृष्णलस्य नियोगवशादेव । नियोगेन च स्वसाधनसंस्कारकत्वेनावघातस्यापेक्षणात् । यवेष्वश्रुतोऽप्यवघातः क्रियते । अत एव द्वारतादर्थे श्रुत्यादीनां व्यापारमाहुः । नियोगेन स्वसिद्धयर्थमाक्षिप्तानामवघातादीनां श्रुत्यादयो द्वारमुपा [24A] यं प्रदर्शयन्ति, अवघातेन चेन्नियोगस्योपकर्तव्यं तत्तदीयत्रीह्युपकारद्वारेणोपकुर्विति । नियोगव्यापारपरिगृहीते वस्तुनीति | नियोगस्य व्यापार उपादानात्मा, तत्प्रयुक्ताक्षेपापरपर्यायग्राहकव्यापारेण परिगृहीतं सर्वं नियोगार्थत्वेन व्यवस्थापितम् । अयं भावः । अनुष्ठानसिद्ध्यर्थं वा प्रयाजादीनां प्रकरणादिभिः श्रुत्यन्तरकल्पनं तादर्थ्यसिद्धये वा ? न तावद् अनुष्ठानसिद्धयर्थं नियोगव्यापारपरिग्रहादेव तत्सिद्धेः । अथ तादर्थ्यसिद्धये तदपि न, विनापि श्रुत्यन्तरकल्पनं श्रुत्यादिभिरर्थानामेव शेषशेषिभावप्रतिपादनस्य कर्तुं शक्यत्वादिति ।
भट्टश्रीचक्रधरप्रणीतः
गौण लाक्षणिकादिभिरिति । अभिधेयाविनाभूतः पदार्थों यदा कार्ययोगित्वेन विवक्ष्यते तदा अभिधेयाविनाभावाल्लक्षणात आगतो लाक्षणिको, यथा 'गङ्गायां घोषः प्रतिवसति' इति घोषप्रतिवसनलक्षणेन कार्येण तट एव लक्ष्यमाणः सम्बध्यते । 'सिहो माणवकः' इत्यादौ तु सिंहजात्याभिधेयया लक्ष्यमाणो यः शौर्यलक्षणो [ 24B] गुणः, सगुणोऽर्थः अवच्छेदकोऽन्यस्य; अत एव गुणादवच्छेदकादायातो गौण इत्युच्यते । अत्र हि तेन गुणेन शौर्यलक्षणेन लक्ष्यमाणेन योऽवच्छिद्यते देवदत्तः स कार्ययोगी, न पुनर्गुणः, लक्षणायां तु लक्ष्यमाण एव कार्ययोगीति विशेषः । अत एव यस्यासावच्छेदकत्वेन गुणो विवक्ष्यते तस्य विशेष्यस्य देवदत्तादेरवश्यं प्रयोगो गौणे; न तु लक्षणायां तटेन लक्ष्यमाणेनान्यदवच्छिद्यते, अत एव तत्रावच्छेद्यस्याप्रयोगः । यथाह""गौणे हि प्रयोगो न लक्षणायाम्" इति [ ] प्रभाकरोपाध्यायः । गौणलाक्षणिका - दिभिरित्यादिग्रहणं लक्षितलक्षणाद्यर्थम् । श्रुतिलिङ्गादिमानानामिति श्रुतिलिङ्गयो
I
१ द्र०ट०१ पृ०११ । २ अभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यते । लक्ष्यमाणगुणैर्योगाद् वृत्तेरिष्टा तु गौणता | काव्यप्रकाशे (२.१२) कारिकेयमुद्धृता ।
।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org