________________
htoपृ०४४, वि०पृ०४७] न्यायमञ्जरीप्रन्थिभङ्गः मात्रतयैव समन्वयो न विवक्षितत्वेनेति यावत् । यथा यावेतावुभौ चाण्डालौ गच्छन्तौ पश्यसि तौ न स्प्रष्टव्यौ, यदि स्पृशेः तत् स्नायाः इति अत्रैकचाण्डालस्पर्शेऽपि स्नानादुभावित्यस्याविवक्षा । यथा च यद्येतावुभौ व्याधितौ स्यातां तदौषधं देयमित्येकस्यापि व्याधितत्वे ओषधदानम् । कचिदन्यथा स्थितानीति । 'प्रयाजशेषेण हवींष्यभिधारयेत्' [ ] इत्यत्र शेषवाचोयुक्त्यैव प्रयाजशेषस्य कर्मान्तरं प्रति गुणत्वं न सम्भवति, प्रयाजार्थत्वेन गृहीतस्याज्यस्य यच्छेषं तदपि प्रयाजार्थमेव, अतस्तस्याज्यार्थताकरणस्यासम्भवात् प्रतिपत्तिकमतैवै न्याय्या। प्रतिपत्तिकमत्वे च प्रयाजशेषस्य प्रतिपाद्यमानत्वात् प्रधानत्वेन द्वितीयानिर्देश एव युक्तः । 'कृष्णवि[23A]षाणां चात्वाले प्रास्यति' इति [ कृष्णविषाणाया इव हविषां चाधारस्वेन सप्तमीति निर्देश एव युक्तश्चात्वाल इतिवत् । तेन प्रयाजशेषं हविष्ष्वभिधारयेदिति प्रतिपत्तिकर्मत्वेन वाक्यार्थानुगुण्यात् समन्वयो युक्तः । प्रतिपत्तिरेव हि तदा प्रयाजशेषस्याज्यस्य दृष्टार्था । अतः परं हि जुह्वामाज्याभागार्थमाज्यं ग्रहीत. व्यम् , तत्परार्थेनाज्येनामिश्रितं कर्तव्यमवश्यं तच्छेषं परित्यक्तव्यम् । परित्याग एव च विशिष्टेन रूपेण प्रतिपत्तिः, यथेश्वरशिरोधृतस्य मालादेविशिष्टे प्रदेशे त्यागो न यत्र तत्र । समिदादयः पञ्चाङ्गयागाः प्रयाजाख्याः । अत एव च न सोपानव्यवहितमिति । श्रुतार्थापत्तिरत्र सोपानम् ।
न यजौ म(क)रणविभक्तिमिति । 'स्वर्गकामो यजेत' इत्येतावत् तावच्छ्यते, न तु यागः करणम्, स्वर्गः फलमिति; तथापि वाक्यार्थभूतनियोगसामर्थ्यलभ्यमेतद उभयो रूपं । तथाहि-स्वर्गकामो यागानुष्ठाने नियुज्यते । स च तत्रान्यदिच्छत्यन्यत् करोतीति न्यायात् कथं प्रवर्तेत ? न च यागेऽप्रवृत्ती नियोगः सम्पत्तिं लभत इति नियोग एव स्वसि[23B]द्धये यागस्य करणत्वं स्वर्गस्य च फलत्वं व्यवस्थापयति; सोऽयमाधिकारिक एवानयोः सम्बन्धो न श्रूयमाणविभक्तिकृत इति । नियोगगर्भत्वाच्च विनियोगस्येति । योऽयं विनियोगः शेषभावः श्रुत्यादिना प्रमाणेनावघाता
१ अभिधार्य प्रयाजानां शेषेण हविरत्र किम् । शेषधारणतत्पात्रे कार्ये नो वाऽभिधारणम् ॥ मान्यथा तेन ते कार्ये न कार्ये प्रतिपत्तितः । प्राजापत्यवपायाश्च न कोऽप्यर्थोऽभिधारणात् ॥ जैमिन्या० मा० ४.१.१४ । २ प्रतिपत्तिकर्म चात्वालकृष्णविषाणप्रासने. डाभक्षणादिकमुपयुक्तकृष्णविषाणपुरोडाशा दिसंस्कारकं । उपयुक्तस्याऽऽकीर्ण करस्यावशिष्यमाणद्रव्यादेविहितदेशे संस्कारविशेषहेतुः प्रक्षेपः प्रतिपत्तिकर्म । अर्थसं०कौ० पृ० ५४ । ३ अङ्गप्रधानसम्बन्धबोध को विधिर्विनियोगविधिः । यथा दध्ना जुहोतीति, स हि तृतीयया प्रतिपन्नाअभावस्य दध्नो होमसम्बन्धं विधत्ते, दन्ना होमं भावयेदिति । अर्थसं० पृ. २२-२३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org