________________
भश्रीचक्रधरप्रणीतः कापू०४३. वि०पृ.॥ तर, न तु तन्नोति । तदनुवर्तीनि तु पदानि तस्मिन्नैमित्तिके निमितानि भवन्तीति ह्यस्यायमाशयः- यदि पदानां वाक्यार्थावधृतौ सामर्थ्यमन्यतोऽवधृतं स्यात् तदा तदनुसारितया वाक्यार्थप्रत्ययोऽपि भवेत् : यदा पुनर्वाक्यार्थस्य कार्यरूपस्य प्रवृत्तिनिवृत्तिलक्षणेन व्यवहारेणावगमात् तत्रावापोद्वापाभ्यां पदानां निमित्त. त्वमवगम्यते तदा यथावगत[निमित्त नैमि[22A)त्तिकानुसरणादेव । यथा पदानां निमित्तत्वं सङ्गच्छते तथा अवगन्तव्यम् । अत एव वाचकत्वादन्यन्निमित्तत्वम् । वाचकत्वं सम्बन्धग्रहणसापेक्षत्वेन, निमित्तत्वं पुनस्तस्मिन्निरपेक्षत्वेन वाक्यार्थावगमं प्रति। अन्यथा प्रथमश्रुताद् वाक्यादर्थप्रतिपत्तिर्न स्यात् । नैमित्तिकानुकूल्यपर्यालोचनयेति । नैमित्तिक नियोगानुकूल्यम् , अधिकारिणि सति तस्य सम्पत्तिसिद्धेः । क्वचिपछयमाणान्यपीति । दर्शपूर्णमासयोः 'ऐन्द्रं दधि, ऐन्द्रं पयः' इति प्रधानं हविर्द्वयं विधायोक्तम्-'यस्योभयं हविरातिमाछेत् स ऐन्द्रं पञ्चशरावमोदनं निर्वपेत्' इति तै० ब्रा० ३.७.१.७] । यस्य हविरातिमाछेत्-हविर्यागायोग्यतां व्रजेदिति । हविरातिगमननिमित्ता पञ्चशरावौदनकर्तव्यता प्रतीयते । हविषश्चार्तिङ्गतस्य विधेयपञ्चशरावप्रवणत्वेन प्रतीतस्योभयविशेष्यत्वाश्रयणे तु स्वार्थत्वपरार्थत्वलक्षणं विरुद्धं रूपद्वयं प्रसज्यते । हविश्चेदार्तिमाछेत् तच्चोभयमित्युभयपदेन च विशेष्यत्वे हविषोऽभिधानावृत्तिलक्षणो वाक्यभेदः' प्रसज्यते । हविरातिमा,दि[22B]त्येकवारमुच्चारितं हविरिति तच्चेद्धविरुभयमिति पुनरुच्चारयितव्यं प्रसज्यते । तत उद्देश्यत्वाद् ग्रहाधेकत्ववद् विशेषणाविवक्षा । तस्माद्धविरार्तिगमननिमित्तैव पञ्चशरावौदनकर्तव्यता । उभयपदं तु श्रुतमपि न विवक्षितम् । उभयमुभयात्मकं यदेतद्धविः प्रक्रान्तमित्यनुवाद
१ भिन्नाविमावी, उभयाभिधाने वाक्यं भिद्येत । शाबरभा० १. २.७ । आवृत्त्या उभयविधावावृत्तिलक्षणो वाक्यमेदः ।...एकवाक्यस्य प्रत्येकमुभयपदार्थे व्यापारमेदेनोभयविधायकत्वे वाक्यभेदो भवति ।....विधेयस्योभयत्वे तद्विधायकवाक्यस्यापि व्यापारमेदेनेव तद्विधायकत्वं सम्भवति, नान्यथा । अर्थसं० कौ० प्र० १८-१९ । २ दर्शपूर्णमानाभ्यां स्वर्गकामो यजेतेति श्रूयते । तत्रेदमस्ति वचनं, यस्योभयं हविरातिमादैन्द्र पञ्चशरावमोदनं निपेदिति । तत्र संदेहः। किमुभयस्मिन्नार्ते पञ्चशरावो निर्वप्तव्य उतान्यतरस्मिन्निति । किं प्राप्तमिति चेत् पश्यसि, एवंजातीयक एकस्याऽऽामिति । तत्र ब्रूमः । उभयोरिति । कुतः । यथाश्रति भवितुमर्हति । यच्छ्रयते तदवगम्यते । उभयोश्चाऽऽर्ती भ्रूयते । श्रयमाणं च विवक्षितुं न्याय्यम् । इतरथा यावदेव हविरिति तावदेवोभयं हविरिति स्यात् । तस्मादुभयोरा पञ्चशराव इति । नैतदेवम् । उपपातो हि, आर्तिसम्बद्ध द्रव्य, तत्कारणम् । तस्य लक्षणं हविरार्तिः । तद्वयस्तं समस्तं च निमित्तम् । न ह्यभयशब्देन शक्यं विशेष्टुम विशेष्यमाणे हि वाक्यं भिद्येत, हविष मातौ पञ्चशरावः । स चोभयस्य हविष इति । शाबरभा०६.४.६.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org