________________
का०पृ०४३,वि०पृ०४६] न्यायमञ्जरीप्रन्थिभङ्गः गृहाभावेन सह व्याप्तिर्गृहीता या सर्वाभावैः सह व्याप्तिः सिद्धयति, अतिप्रसङ्गादिव्यलमप्रकृताभिधानेन ।
मम त्वदृष्ट(ष्टि)मात्रेणेति । अस्य पूर्वमर्धम्-'यस्य वस्त्वन्तराभावो गम्यस्तस्यैव दुष्यति' इति' [श्लो० वा०अर्था० ४०] । अस्यार्थः- यस्य वादिनो बौद्धस्य वस्त्वन्तराभावोऽनग्निव्यावृत्तिलक्षणोऽनुमानगम्यस्तस्य तत्तद्देशा नव]गमरूपो दोषः । यावत् सर्वानग्निव्यावृत्तान् देशान् [नाव]गच्छति तावद् व्यतिरेकग्रहो न सिद्धयतीत्येवंरूपः । ननु चाग्न्याद्यभावेऽपि धूमादिव्यतिरेकि[ 20B]........[ 21A]* त्र वाक्यस्यैव तत्प्रतिपत्तिहेतोापारः । कार्य हि तेन प्रतिपाद्यम् । निराकाङ्क्षस्य च तस्य प्रतिपादने तत्प्रतिपादितं भवति इति तात्पर्यम् ।
[दुराविदूरेति] दूरव्यवस्थिता गुणीभूता अङ्गभूता याः क्रियाः, [अदूरव्यवस्थिता] अगुणभूताश्च प्रधानक्रियाः । दूरव्यवस्थितत्वं भिन्नवाक्योपादानत्वम् । तथाहि'आग्नेयोऽष्टाकपालो भवति' तै०सं० २.६.३.३]इत्यादिभिर्वाक्यैः प्रधानक्रिया उपात्ताः ‘समिधो यजति'[ श० ब्रा० २.६.१.१. ]इत्यादिभिस्तु गुणक्रियाः। एतत्तु 'दर्शपूर्णमासाभ्यां यजेत स्वर्गकामः' इत्यधिकारवाक्यापेक्षयोत्पत्तिवाक्यानामुक्तम् । क्वचित्तु अदूरव्यवस्थिता एकवाक्योपात्ता गुणाऽगुणक्रियाः । तद्यथा “एतस्यैव रेव. तीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेत" इति तां. ब्रा० १७. ७.१] । अथ हि वारवन्तीयकरणं गुणक्रिया अन्यस्योत्पत्तिवाक्यस्याभावात् , यागश्च प्रधानक्रियाऽनेनैवोपात्ता | आदिग्रहणाद् द्रव्य-देवता-तद्विशेषणादीना[21B]मवरोधः । एवमादिनानेकेन कारककलापेनोपरक्तः कार्यान्तराद् [व्य]वच्छिन्नः कार्यात्मा यो वाक्यार्थः । अथवा गुणक्रिया द्रव्यं प्रति गुणत्वेन स्थिता द्रव्यचिकीर्षकत्वेन व्यवस्थिता या अवघातादयः, याश्चागुणक्रिया नियोगार्थाः समिदादयस्ताः। दूरव्यवस्थिता विकृतिषु प्रकरणान्तरोपात्तत्वेन, अदूरव्यवस्थिताश्चैकप्रकरणत्वेन प्रकृतिषु; अन्यत् समानम् । कारकत्वं तु क्रियाद्रव्यादीनां साक्षात् पारम्पर्येण च; नियोगसंपत्तेस्तदधीनत्वात् , न पुनर्घटादाविव मृदादीनां प्रवृत्तिविषयत्वेन कारकत्वम् । प्रवृत्तिप्रयोजनं हि नियोगो, न प्रवृत्तिविषय इति प्राभाकराः तत्सिद्धये हि धात्वर्थे प्रव
१ मुद्रितश्लोकवार्तिके 'गम्यः'स्थाने 'प्रमेयः' इति पाठो वर्तते, 'एव' तु नास्त्येव । २ अवाच्यानि सर्वाण्यक्षराणि एतत्पृष्ठस्थानि । ३ तानि द्वधं गुणप्रधानभूतानि । यैस्तु द्रव्यं चिकीर्घ्यते, गुणस्तत्र प्रतीयेत, तस्य द्रव्यप्रधानत्वात् । यैस्तु द्रव्यं न चिकीयंते, तानि प्रधानभूतानि, द्रव्यस्य गुणभूतत्वात् । पू०मी०सू०-२. १. ३. ६-८ । क्रियारूपाणि च द्विविधानि-गुणकर्माणि प्रधानकर्माणि च । एतान्येव सन्निपत्योपकारकाणि आरादुपकारकाणीति चोच्यन्ते । अर्थसं० पृ० ५२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org