________________
२४
भट्टभोचक्रधरप्रणीतः [का०पृ०४१,वि०पृ०४५ इति वार्तिकं भाष्योदाहृतार्थापत्तेः प्रत्यक्षेणापि हि बहिर्भावं प्रतिपद्य गृहाभावेन सह सम्बन्धग्रहणादर्थापत्तिपूर्वकत्वाभावादनुमानेऽन्तर्भावमाह । इमं चाऽन्तर्भावमनिराकृत्यैवोदाहरणान्तरं चित्ते विधायाह
"तदाप्यविद्यमानत्वं न सर्वत्र प्रतीयते ।
न चैकदेशनास्तित्वात् व्याप्तिहेतोभविष्यति ॥” इति [श्लो० वा० अर्था० ३५]
गृहव्यवस्थितं चत्रमुपलभ्य तस्मिन्नेव काले तदन्यथानुपपत्त्यैव सर्वत्राभावमुपलभ्य तस्य गृहव्यवस्थितदेवदत्तभावेनाविनाभावग्रहणे तत्रापत्तिपूर्वकत्वमेव सम्बन्धग्रहणस्य । 'ननु चैत्राधिष्ठितदेशव्यतिरिक्तसमीपदेशे चैत्रस्याभावेनाभावं प्रतिपद्याभावेनाविनाभाव. ग्रहणात् किमुच्यतेऽर्थापत्तिपूर्वकत्वमित्याशङ्कयाह-'न चैकदेशनास्तित्वात्' इति । चैत्राधिष्ठितव्यतिरिक्तानन्तदेशगतो ह्यभावो भावस्य सम्बन्धी, न सन्निकृष्टव्यतिरिक्तदे[19B]शगत एव । तस्य च प्रमाणान्तरेणाभावेनाप्यवगमाभावादापत्तिपूर्वकत्वम् । दृश्यस्य ह्यनुपलब्धिरूपेणाभावेनाभावः सिद्धयति । न च विप्रकृष्टदेशे दृश्यताऽस्तीति एकदेशनास्तित्वमात्रात् केवलान्न हेतोरुत्तरकालमभावानुमापकस्य गृहसद्भावस्य व्याप्तिग्रहोऽस्तीत्यर्थः । इत्थमेतदुम्बेकादिदृष्ट्या वात्तिकव्याख्यानम् , तदनुयायिना ग्रन्थकृतापि तदेवानुसृत्योक्तम् । तत्त्वतस्तु 'तदाप्यविद्यमानत्वम्' इति वार्तिकं व्याख्यायमानं प्रकृतोदाहरणसमर्थनेऽपि सङ्गच्छते । तदा ह्ययमर्थः- तदापीत्यस्य यदापि द्वारि स्थितस्तदापि दृश्यानुपलम्भादभावो गृहे सिध्यतु, न पुनः सर्वत्र प्रतीयते, दृश्यत्वाभावात् , अतः सर्वत्राभावनिश्चयेऽर्थापत्तैरेव व्यापारः । अयं भावो-गृहे यदा, न तदा बहिरित्येवं व्याप्तौ गृहीतायां गृहादर्शनाद् बहिर्भावः सिद्धयति, न चैवमर्थापत्ति विना व्याप्तिग्रहः सम्भवति, दूरदेशे अभावस्याप्यवगन्तुमशक्यत्वात् ; अतोऽर्थापत्त्या एकदेशभावान्यथानुपपत्तिरूपया देशान्तरेऽप्यभावकल्पनेति । ननु मावस्याभा[20A ]वेन [सह] सम्बन्धग्रहणाद् भावलिगे)नैवाभावावगतिरित्याह-'न चैकदेशनास्तित्वाद् गृहाभावाद् गृहीतात् कारणात् सर्वाभावैहेंतोर्लिङ्गस्य व्याप्तिसिद्धिः' । अयमर्थः-भावाख्यं लिङ्गमभावावगतौ येन सह गृहीतसम्बन्धं तस्यैव गमकं भवितुमर्हति, गृहाभावेन च तस्य सम्बन्धग्रहो वृत्तोऽतस्तस्यैव गमकं भवतु; न च
१ 'ननु'त आरभ्य 'अर्थापत्तिपूर्वकत्वम्'पर्यन्तो भङ्गभागः उम्बेकटीकायां (श्लोक ३५) शब्दशो लब्धः । २ मुद्रितोम्बेकटीकायां तु 'सम्बन्धी न' स्थाने 'सम्बन्धिनः' इति पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org