________________
का० पृ०४१ वि००४५ ]
न्यायमञ्जरीग्रन्थिभङ्गः
२३
[प्रजा ? ] कामः' इत्यादौ कार्यमात्रं भावनामात्रं करणम्, फलं च- आग्नेयेन चरुणा भावयेदिति निर्दिष्टम् । कथमंशस्तु नोपदिष्टः । न चानुपकृतं करणं भवतीति करणरूपतान्यथानुपपत्त्या 'प्रकृतिवद् विकृतिः कर्तव्या' इति 'कल्प्यते । उपदिष्टेतिकर्तव्यता कं कर्म प्रकृतिः, अनुपदिष्टेतिकर्तव्यताकं तु विकृतिः । विध्यन्त इतिकर्तव्यता |
स्वभावताविवेति । वृक्षोऽयं शिशपात्वादित्यत्र यावदेव शिंशपाख्यो भावो गृहीतः तावदेव वृक्षत्वमपि तत्स्वभावो गृहीत एव । तद्ग्रहणे तस्याग्रहणात् तत्स्वभातैव न स्यादित्यर्थः ।
भाष्यमप्येवं योजयन्तीति । दृष्टः श्रुतो वाऽर्थोऽर्थकल्पना अर्थस्य कल्पकः, कस्यार्थस्येत्यपेक्षायां योऽन्यथा नोपपद्यते तस्येति योजना प्राभाकरपक्षे । ननु समासान्तर्गतेनार्थशब्देन कथमन्यथा नोपपद्यत इत्यस्य सम्बन्धः, तत्र गुणीभूतत्वादर्थशब्दस्य; नैवं, कल्पनाशब्देनापि सम्बन्धेऽन्यथा नोपपद्यत इत्यस्यायमेवार्थो लभ्यते यतः । इदमेवाह-यतः सा कल्पना प्रमेयद्वारिकेति । प्रमेयद्वारिका प्रमेयमुखेनान्यथा नोपपद्यते । प्रमेयस्यान्यथानुपपद्यमानत्वात् 'साऽन्यथा नो [ 19A ] पपद्यते' इत्युच्यते न साक्षादित्यर्थः । तदेवाह - 'कल्प्यमानोऽर्थोऽन्यथा नोपपद्यते' इति ।
उदाहरणमन्यत् तु व्यत्त (त्य) येन प्रदर्शितमिति । तथाह"गृहद्वारि स्थितो यस्तु बहिर्भावं प्रकल्पयेत् ।
यदा तस्मिन्नयं देशे न तदाऽन्यत्र विद्यते ||" [ श्लो० वा० अर्था० ३४]
१ विकृतौ सर्वार्थः शेषः प्रकृतिवत् । जै० सू० ३.४.३४ । यत्र समग्राङ्गोपदेशः सा प्रकृतिः यथा दर्शपूर्णमासादिः । तत्प्रकरणे सर्वाङ्गपाठात् । यत्र न सर्वाङ्गोपदेशः सा विकृतिः यथा सौर्यादिः । तत्र कतिपयाङ्गानामतिदेशेन प्राप्तत्वात् । अर्थसं० पृ० ३७ । २ स्वभावहेतु निरूपणम् न्या०बि० ३.९-२० । ३ अर्थापत्तिरपि दृष्टः श्रुतो वाऽर्थोऽन्यथा नोपपद्यत इत्यर्थकल्पना । शा० भा० १.१.५. । ४ ननु " दृष्टः श्रुतो वाऽर्थः अन्यथा नोपपद्यते" इति गमकस्यान्यथानुपद्यमानतां दर्शयति । अप्रन्थज्ञो देवानांप्रियः - "दृष्टः श्रुतो वाऽर्थोऽर्थंकल्पना” इति किमिदमर्थकल्पनेति ? दृष्टः श्रुतो वार्थोऽर्थान्तरस्य प्रमाणमित्यर्थः । "अन्यथा नोपपद्यते' इति केन सम्बध्यते ? प्रमित्येति वदामः, अन्यथानुपपद्य मानतामापादयन् अर्थान्तरं गमयति । बृहती पृ० ११३ । स्यादेवम् - यद्यनुपपन्नं गमकं स्यात् । इह तु यन्मोपपद्यते तदेव गम्यम् - गृहाभावेन हि विना बहिर्भावो नोपपद्यते । किमिदानीमुपपादकादनुपपन्ने बुद्धिरर्थापत्तिः ? को दोषः ? न खलु कश्चिद् दोषः, किन्त्वसौ नैवास्ति न ह्युपपादकदर्शनादनुपपनार्थे बुद्धिर्भवति, यदि स्यात्, वृक्षत्वदर्शनाच्छिंशपात्वं कल्प्येत, वृक्षत्वेन विना शिशपात्वस्यानुपपत्तेः, तस्मादनुपपन्नमेव गमकं नोपपादकम् । शास्त्रदी० पृ० २९०-९१ । एकदेशी प्रभाकरः प्रथमं मनोभिलषितरीत्या परिहरति — स्यादेवमिति । शास्त्रदी०प्र०१०२९० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org