________________
भट्टश्रीचक्रधरप्रणीतः कापृ०३७, वि०पृ० ४० समग्रांशपरिपूरणदुःस्थित इति तु पाठे समग्रांशानां परिपूरणाय परिपूरयितुं परिपूरणनिमित्तं दुःस्थित इति व्याख्येयम् । समग्राङ्गपरिपूरणेति तु पाठे स्पष्ट एवार्थः । या मन्त्रैरष्टकालिङ्गैरिति ।
यां जना अभिनन्दन्ति' रात्रिं धेनुमिवाऽऽयती[म्] ।
संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली] ॥ [18A] [अथव० ३. १०] अष्टकायै सुराधसे स्वाहा । इत्यादयो मन्त्रा अष्टकादिकर्मविशेषप्रकाशका दृश्यन्ते, न चाविहितस्य प्रकाशनमस्ति; विहितानां कर्मणां प्रयोगकाले मन्त्रैः प्रकाशनात् । अतो मन्त्रप्रकाशनान्यथानुपपत्तितः 'अष्टकाः कर्तव्याः' इति [आश्व० गृ.] वैदिक विधिपरिकल्पनम् । श्रुतिलिङ्गादिभिर्या चेति प्राग्व्याख्यातम् । विश्वजित्यधिकारश्चेति । 'विश्वजिता यजेत'इति [तांब्रा० १९.४.५] हि तत्र श्रयते । यजेत यागः कर्तव्य इति । स च निष्फलः, कथं कर्तव्य इति ? तत्कर्तव्यतासिद्धये फलाक्षेपः, तच्चाधिकारनिमित्तत्वादधिकारशब्देनोक्तं फलम् । अथवा 'विश्वजिता यजेत' इति केवला प्रेरणा श्रूयते । सा च प्रेयं विना कस्येति तस्या अनुपपत्त्या स्वर्गकाम इति प्रेर्यसमर्पकपदपरिकल्पनम् । यागस्य कर्तव्यता तद्विषयप्रेरणावशाद् भवति । अधिक्रियत इत्यधिकारैः स्वर्गकामः प्रेर्यस्तस्य कल्पना । 'सौर्य चकै निर्वयेत् ब्रह्मवर्चसकामः' इति तै०सं० २.३.२.३] अत्र ब्रह्मवर्चसं प्रति सौर्यस्य चराविधानं श्रूयते । न चानवगतस्वरूपस्यात्र विधानं सम्भवति । अतोऽधिकारविध्यन्यथानुपपत्त्या कर्मस्वरूपावगमकस्योत्पत्तिविधिकल्पनम् । दर्शपूर्णमासयोः हि 'आग्नेयोऽष्टाकपालो भवति' तै०सं० २.६.३.३] इत्यादिवाक्येभ्योऽवगतस्वरूपयोः स्वर्ग प्रति 'दर्शपूर्णमासाभ्यां यजेत स्वर्गकामः' [ ] इति विधानात् । 'ऐन्द्राग्नं चरं निर्वपेत् [18B]
. १ मुद्रिताथर्ववेदे तु 'प्रतिनन्दन्ति' इति पाठः। ननु नोपलभन्त एवंजातीय प्रन्थम् । अनुपलभमाना अध्यनुमिमीरन्, विस्मरणमप्युपपद्यत इति । तदुपपन्नत्वात् पूर्वविज्ञानस्य त्रैवर्णिकानां स्मरतां विस्मरणस्य चोपपन्नत्वाद् प्रन्थानुमानमुपपद्यत इति प्रमाणं स्मृतिः । अष्टकालिझाश्च मन्त्रा वेदे दृश्यन्ते 'यां जनाः प्रतिनन्दन्ति' इत्येवमादयः । तथा प्रत्युपस्थितनियमानामाचाराणां दृष्टार्थत्वादेव प्रामाण्यम् । शा० भा० १.३.१. । ३ कर्मजन्यफलस्वाम्यबोधको विधिरधिकारविधिः। कर्मजन्यफलस्वाम्यं कर्मजन्यफलभोक्तृत्वम् । अर्थसं०, पृ०७२। ४ सौर्यचरौ चरुः स्थाली किं वाऽन्न लौकिकोक्कितः । स्थाल्यस्या श्रपणं योग्यं कपालविकृतित्वतः ॥ विद्वच्छतिप्रसिद्धयाऽन्नं देवता तद्धितोक्तितः। योग्यत्वेन प्रदेयं तत्पुरोडाशहविर्यथा ॥ जैन्या०मा० १०.१.१० । ५ तत्र कर्मस्वरूपमात्रबोधको विधिरुत्पत्तिविधिः । अर्थसं० पृ० २० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org