________________
२१
का००३७, वि००४०] न्यायमञ्जरीग्रन्थिभङ्गः श्रुत्या क्रयार्थयोररुणैकहायन्योक्यिादेकक्रियासम्बन्धनिबन्धनादेकहायनीद्रव्यारुणगुणयोः परस्परसम्बन्धावगमकश्रुतिपरिकल्पनम् । प्राभाकरास्तु वाक्योदाहरणम् 'अरुणया क्रीणाति' इत्येवमाहुः; क्रीणातिपदारुणपदसम्बन्धात्मकाद् वाक्यादस्मादेवारुणायाः क्रयार्थत्वं प्रतीयते, न तृतीयया श्रुत्या । सा हि कारकमात्रे अक्रियाशेषेऽपि दृष्टा । यथा 'गोदोहनेन' पशुकामस्य प्रणयेत्' इति [आप०ौ० १.१६.३] फलार्थत्वादप्रणयनार्थस्यापि गोदोहनस्य कारकतयैव प्रणयनेन सम्ब[17A ]न्धः, न प्रणयनशेषतया । यथा च शाल्यर्थ कुल्यानां प्रणीतानां य आचमनपानादिना सम्बन्धो नासावाचमनादिशेषतया अपि तु कारकत्वेन, एवं तृतीयाया अतच्छेषभूतेऽपि प्रयोगदर्शनान्न ततः शेषत्वनिश्चयः, किन्तु पदान्तरसम्बन्धात्मकवाक्यादेव । अतोऽत्र 'अरुणया क्रीणाति' इति न तृतीययैव शेषत्वप्रतिपत्तिः, अपि तु क्रीणातिपदसमभिव्याहारात्मकाद् वाक्यादेवेत्याहुः । प्रकरणात् 'समिधो यजति' [शतपथब्रा० २.६.१.१.]इत्यादीनां प्रयाजादीनां दर्शपूर्णमासप्रकरणे श्रवणात् तादर्थ्यप्रतिपादकश्रुतिकल्पनम् । स्थानाद् यथा 'दब्धिर्नामास्य दब्धोऽहं भ्रातृव्यं दभेयम्' इति तै०सं० १.६.२.४.] मन्त्रस्योपांशुयाजस्य स्थाने क्रमे सन्निधावाग्नातस्य प्रकरणात् सकलदर्शपूर्णमासार्थत्वे प्राप्ते स्थानाद् देशसाम्यादुपांशुयाजार्थभावगमकश्रुतिपरिकल्पनम् । अनाम्नातकर्तृकेषु पुरोडाशादिषु पदार्थेष्वाध्वर्यवमित्यादिसमाख्ययाध्वांदिकर्तृ[17B]कत्वप्रतिपादयितृश्रुतिकल्पनं यत् तत् समाख्यायाः ।
भावाभावोभयधर्मकस्येति । यदाहनासिद्धे भावधर्मोऽस्ति व्यभिचार्युभयाश्रयः । धर्मो विरुद्धोऽभावस्य सा सत्ता साध्यते कथम् ॥ [प्र० वा० ३.१९०]इति ।
वाक्याथै हि समग्रांशे । वाक्यार्थो हि देवदत्तस्य पीनताख्येन धर्मेण कालविशेषावच्छिन्नस्वकारणभूतभोजननिषेधसहितेन संसर्गः । स यदि रात्रौ न भुङ्क्ते कदा तर्हि भुङ्क्ते ?, भोजनं विना च कथं पीन इति सापेक्षत्वाद् दुःस्थितो न समप्रैरपेक्षितैरशैः परिपूरितः, यदा सुस्थितो निराकाङ्क्षो भवति तदाऽसौ वाक्येन प्रतिपादितो भवति । भावतस्तु निराकाङ्क्षस्य प्रतिपादकं वाक्यमुच्यते । यदाहुः
साकाङ्क्षावयवं भेदे परानाकाङ्क्षशब्दकम् । क्रियाप्रधानं गुणवदेकार्थ वाक्यमुच्यते ॥ [वाक्यप० २.४]
१ गौयतेऽस्मिन्निति गोदोहनम् । यस्मिन् पात्रे गृहे प्रतिदिनं गौर्दुह्यते तत् पात्र गोदोहनशब्देनोच्यते । २ दधिर्धातुकमायुधम् । जै०न्या०मा०३.३.५। ३ दभेयम् हिंस्याम् । १ मध्वर्यवमिति समाख्यातानि कर्माण्यध्वर्युणा कर्तव्यानि । हौत्रमिति च होत्रा। शा०भा० ३.३.६.१३।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org