________________
२०
प्रणातः
भट्टश्रीचक्रधरप्रणीतः [ জায়ূo৪৭, বিor০২৩ एकवस्तुविषययोर्भावाभावयोः संमीलनायाः अभावादित्यर्थः । एवमर्थापत्तेापारं प्रदर्य फलतस्तु तस्य नियमांश एव पर्यवसानमिति दर्शयितुमाह-अतश्च येयमागमादिति । पूर्वं ह्यनियतदेशतया प्रतिप[ 16A ]त्तिरभूत् , गृहाभावे तु कुतश्चित्प्रमाणादवगते संविन्नेति नियतदेशतयोत्पादात् । एवं च सति यद्यपि जीवतो गृहाभावेनात्मलाभसमय एवाऽऽक्षिप्तो बहिर्भावस्तथापि नियमस्य पूर्वमनवगतस्यावगमादस्ति पृथक् प्रमेयलाभः, आक्षिप्तबहिर्भावस्य लब्धात्मलाभस्य गृहीतेर्बहिरस्तीति नियमावगतिपर्यन्तत्वात् । तदतो वैलक्षण्यादिति । न ह्यनुमाने गमकं गम्याक्षेपपूर्वकमात्मानमासाद्य नियमांशे व्याप्रियते इत्यर्थः । तदुक्तम् – 'धूमावगमवेलायां नाग्न्यधीनं हि किञ्चन' इति' [श्लो० वा० अर्थापत्ति० २०] ।
न च विभावरीभोजनलक्षणोऽर्थ इति । एकस्मिन् क्रियापदे प्रयुक्ते सर्वकारकाक्षेपसिद्धिः, कारकपदे वा प्रयुक्त एकस्मिन् सर्वक्रियाक्षेपात् कारकपदं क्रियापदं च कारकान्तरक्रियान्तरव्यावृत्तय उपादीयते । यथा 'गामानय' इति गामित्यनेनैव क्रियामात्राक्षेपाद् आनयेति बधानेत्यादिव्यावृत्त्यर्थं कल्प्यते । तस्माद् भेदो वाक्यार्थ इति भेदवाक्यार्थवादिमतम् । न च परस्परासंसृष्टावन्यतो भेत्तुं शक्यौ । अतः संसर्गप्रतीतिस्तत्राऽऽर्थी । साकाङ्क्षाणां वा परस्परसम्बन्धात् संसों वाक्यार्थः; अर्थान्तरादभिन्नयोश्च संसर्गों नोपपद्यत इति भेदप्रतीतिस्तत्राऽऽर्थी ।
विनियोक्त्री श्रुतिर्यत्र कल्प्या प्रकरणादिभिस्तत्र व्याप्तिबोधोऽपि दुर्घट इति सम्बन्धः । प्रकरणादिभिरिति लिङ्गादिप्रमाणपञ्चकपरिग्रहः । कश्चित्तु 'वीही16B] नवहन्ति' इति द्वितीयाश्रुतितोऽपि 'बीह्यर्थोऽवघातः' इति श्रुत्यन्तरकल्पनमिच्छति । लिङ्गेन श्रतिकल्पनं यथा 'बर्हिर्देवसदनं दामि' इति[मै०सं०१.१.२] मन्त्रस्याभिधानसामर्थ्यलक्षणेन लिङ्गेन बहिर्लवनमनेन मन्त्रेण कर्तव्यमिति श्रुतेः परिकल्पनम् । तथाहि देवाः सीदन्त्यस्मिन्निति देवसदनं बर्हिर्दामि लुनामीत्यभिधानसामर्थ्यम् । वाक्याद् यथा 'अरुणयैकहायन्या सोमं क्रीणाति' इति [तै०सं० ६.१.६.७]
१ श्लोव्वा०अर्था० २० । मुद्रिते तु श्लोकवाति : 'न तद्ग्रहणवेलायां' इति पाठो वर्तते । २ द्र० शा०भा० ३.३.७.१४ । एतस्य विधेः सहकारभूतानि षट्प्रमाणानिश्रति-लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यारूपाणि ।...तत्र निरपेक्षो रवः श्रुतिः ।...सेयं श्रुतिलिङ्गादिभ्यः प्रबला ।...शब्दसामर्थ्य लिङ्गम् ।...तदिदं लि वाक्या दिभ्यो बलवत् ।...समभिव्याहारो वाक्यम् ।...तदिदं वाक्यं प्रकरणादिभ्यो बलवत् ।...उभयाकाक्षा प्रकरणम् ।... इदं च स्थानादिभ्यो बलवद् ।...देशसामान्य स्थानम् ।...तच्च स्थानं समाख्यातः प्रबलम् । ...समाख्या यौगिकः शब्दः । अर्थसं० प्र० २४-५१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org