________________
वि०पू०३७] न्यायमञ्जरीग्रन्थिभङ्गः
રે
स्तनयित्नुशब्दश्रवणात् तद्धेतोर्वाय्वभ्रसंयोगविभागादेः परिज्ञानम्'। [15B] सुशिक्षितचार्वाका उद्भटादयः ।
तस्य तज्ज्ञानग्राह्यत्वेति । तस्य गोपिण्डस्ये तज्ज्ञानग्राह्यत्वमुपमानज्ञानग्राह्यत्वम् । तदन्यथानुपपत्येति । वाचकशक्तिरेव नित्यत्वं विना नोपपद्यते, सम्बन्धज्ञानकालगृहीतस्य व्यवहारकालेऽसत्त्वात् ।
का० पृ०३५,
प्रमेयानुप्रवेशप्रसङ्गादिति । जीवतो यो गृहाभावः स लब्धात्मभावः पक्षधर्मवासादनद्वारेण हेतुतां प्रतिपद्यते, तस्य तु गृहाभावस्य जीवनविशिष्टस्य बहिर्भाव विनात्मलाभ एव नास्ति, तदाऽक्षेपेणैवात्मलाभात्; इत्यनुमानप्रमेयस्य --- लिङ्गग्रहणसमय एव - तद्ग्रहणं विना लिङ्गग्रहणाभावाद् गृहीतत्वेन प्रमेयानुप्रवेशिता । इमामेवोत्तरग्रन्थेनाभिव्यनक्ति ।
प्रमाणद्वयसमर्पितेति ।
प्रमाणद्वयेनागमाऽभावाख्येनैकदेवदत्तविषयो यौ भावाभावो विरुद्धौ समर्पितौ तयोः समर्थनार्थमविरोधेनावस्थानार्थम् । प्रमेयद्वयं परामृषत्येवेति । प्रमेयद्वयमागमाभावसम्बन्धि भावाभावात्मकं परामृशत्युपपादकत्वेन, यः अभावः स गृहे, यस्तु भावः स बहिरिति । अन्यथा तत्संघटनायोगादिति ।
१ द्रष्टव्यम् न्यायभाष्यम् (२.१.३) । २ न ह्यदृष्टार्थसम्बन्धः शब्दो भवति वाचकः ॥ तथा चेत् स्यादपूर्वोऽपि सर्वः सर्व प्रकाशयेत् । सम्बन्धदर्शनं चास्य नाऽनित्यस्योपपद्यते ॥ सम्ब न्धज्ञान सिद्धिश्चेद् ध्रुवं कालान्तर स्थितिः । अन्यस्मिन् ज्ञातसम्बन्धे न चान्यो वाचको भवेत् ॥ गोशब्दे ज्ञातसम्बन्धे नाऽश्वशब्दो हि वाचकः । श्लो०वा०शब्दनि०२४१-४४ । नित्यस्तु स्याद् दर्शनस्य परार्थत्वात् । नित्यः शब्दो भवितुमर्हति । कुतः ? दर्शनस्य परार्थत्वात् । दर्शनमुच्चारणं तत्परार्थ परमर्थ प्रत्याययितुम् । उच्चरितमात्रे हि विनष्टे शब्दे न चाऽन्योऽन्यार्थं प्रत्याययितुं शक्नुयात् । अतो न परार्थमुच्चार्येत । अथ न विनष्टस्ततो बहुश उपलब्धत्वादर्थावगम इति युक्तम् । शाबरभा० १.१.१८ । अर्थप्रतिपत्त्यन्यथानुपपत्त्या तु नित्यस्वमेव युक्तम् । न हि प्रत्युच्चारणमन्यस्यान्यस्य क्रियमाणस्यार्थप्रत्यायकत्वं संभवति सम्बन्धप्रहणासम्भवात् अगृहीतसम्बन्धस्य चाप्रत्यायकत्वात् । न चान्यस्मिन् गृहीतसम्बन्धेऽन्यस्य प्रत्यायकत्वं सम्भवति । शास्त्रदी० पृ०५५९ ३ गेहाभावत्वमात्र तु यद् स्वतन्त्र प्रतीयते । म तावता बहिर्भाव चैत्रस्यैवावधार्यते ॥ सिद्धे सद्भावविज्ञाने गेहाभावधियात्र तु । गेहादुत्कालिता सत्ता बहिरेवावतिष्ठते ॥ तेनात्र निरपेक्षस्य व्यभिचारो मृतादिना । यस्य त्वव्यभिचारित्वं न ततोऽन्यत् प्रतीयते । तस्मात् प्रत्यक्षतो गेहे चैत्राभावे ह्यभावतः । ज्ञाते यत् सत्त्वविज्ञानं तदेवेद बहिः स्थितम् ॥ पक्षधर्मात्मलाभाय बहिर्भावः प्रवेशितः । तद्विशिष्टोऽनुमेयः स्यात् पक्षधर्मान्वयादिभिः ॥ श्लो०वा० अर्थापत्ति०२३-२७ । न चैत्रमात्रेण विशेषित गमयति, मृतेऽपि भावात् । नापि जीवनमात्रेण, चैत्रबहिर्भावाभावेऽपि देवदत्तवहिर्भावे सद्भावादित्यर्थः । उभयविशेषितस्य तु गृहाभावस्य बहिर्भावसाधकत्वम्, तस्य चोपपत्तिर्बहिर्भावावगतिपूर्विकेति न तदवगतौ तस्य लिङ्गत्वम् । उम्बेकटीका ० श्लो०वा० अर्थापत्ति० २५-२६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org