________________
भट्टश्रीचक्रधरप्रणीतः [का००३२, वि००३४ बुद्धयारुढत्ववर्णनादिति । “सर्व एवायमनुमानानुमेयव्यवहारो बुद्धयारुढेन धर्मधर्मिन्यायेन सिद्धयति'' इति' वर्णनात् । बुद्धिरत्र विकल्पज्ञानमभिप्रेता।
द्वितीयलिङ्गदर्शनम् । सम्बन्धग्रहणकालापेक्षया पर्वतादौ ।
ननु क्षणिकत्वेन विनष्टत्वात् कथं स एव प्रत्यक्षः परोक्षो भवेदिति । तन्नेत्याह-क्षणभङ्ग निषेत्स्याम इति । यथा दर्शनविषयीकृतस्य स्वलक्षणस्य प्राप्यस्य चान्यत्वेऽपि सन्तानापेक्षयैकत्वमभ्युपगम्य प्रदर्शितप्रापकत्वं प्रत्यक्षस्य भण्यते, तद्वत् क्षणिकत्वेऽप्येकसन्तानापेक्षयैकविषयत्वं प्रत्यक्षानुमानयोः किमिति नेष्यत इति भावः ।
शब्दात्तु तदवच्छिन्ना वाच्ये सजायते मतिरिति वक्ष्यमाणप्रवरमतेनाह।
१ स्वभावप्रतिबन्धे हि सत्यर्थोऽर्थ न व्यभिचरति, तदात्मत्वात् । तदात्मत्वे साध्यसाधनमेदाभाव इति चेत् । न । धर्मभेदपरिकल्पनादिति वक्ष्यामः। तथा चाह-"सर्व एवायमनुमानानुमेयव्यवहारो बुद्ध्यारूढेन धर्मधर्मिन्यायेन" इति । मेदो धर्मधर्मितया बुद्धथाकारकृतो मार्थोऽपि, विकल्पभेदानां स्वतन्त्राणामनर्थाश्रयत्वात् । प्र०वा स्वो वृ० पृ०२ । आचार्य दिग्नागेनाप्येतदुक्तमित्याह-तथा चेत्यादि । सर्व एवेति यत्रापि साध्यसाधनयोरग्निधूभयोर्वास्तवो भेदस्तत्रापि स्वलक्षणेन व्यवहारायोगात् । अनुमीयतेऽनेनेत्यनुमान लिङ्गम् , अनुमेयः साध्यधर्मी साध्यधर्मश्च, तेषां व्यवहारो नानात्वप्रतिरूपः बुद्धयारूढेन धर्मधर्मिणोर्भेदस्तेन, बुद्धिप्रतिभासगतेन भिन्नरूपेण मेदव्यवहार इति यावत् । यदि तर्हि बुद्धिपरिकल्पितो धर्मधमिव्यवहार एवं तहि कल्पिताद्धेतोः साध्यसिद्धिः प्राप्ता । ततश्च हेतुदोषो यावानुच्यते स सर्वः स्यात् । तदाह भट्टः--यदि वा विद्यमानोऽपि मेदो बुद्धिप्रकल्पितः । साध्यसाधनधर्मादेव्यवहाराय कल्प्यते ॥ ततो भवत्प्रयुक्तेऽस्मिन् साधनं यावदुच्यते । सर्वत्रोत्पद्यते बुद्धिरिति दूषणता भवेत् ॥ इति ॥ [ लो०वा निराल. १७१-७२] अत्राह-भेद इत्यादि। एतदाह-अर्थ एवार्थ गमयति केवलम् । धर्मधर्मितयाऽयं धर्मोऽयं धर्मीति यो मेदो नानात्वम् , अयमेव बुद्धयाकारकतो बया परिकल्पितो नार्थोऽपि न लिङ्गमपि बुद्धयाकारकृतम् । विकल्पनिर्मितादेव लिङ्गात् कस्मादर्थप्रतिपत्तिर्न भवतीत्याह-विकल्पेत्यादि । विकल्पमेदानां विकल्पविशेषाणामिच्छामात्रानु. रोधित्वेन स्वतन्त्राणामनर्थाश्रयादर्थाप्रतिबद्धत्वे साक्षादनुत्पत्ते लम्बनत्वादित्यर्थः । प्रवा० कर्ण पृ०२४। २ लिङ्गदर्शनानि तावत् त्रीणि । तानीमानि-यदा प्रथम दृष्टान्तरूप उपात्ते महानसादौ यद् धूमदर्शनं तत् प्रथमं लिङ्गदर्शनम्, यदा तु अन्यत्र पर्वतादौ यद् धूमदर्शनं तद् द्वितीयम्, यदा पुनः ‘वहिव्याप्यधूमवानयं पर्वतः' इतिरूपो यो लिङ्गपरामर्शस्तत् तृतीयम् । अस्मिन् सन्दर्भ न्यायभाष्यं द्रष्टव्यम् (१.१.५)-"तत्पूर्वकमित्यनेन लिङ्गलिङ्गिनोः सम्बन्धदर्शन लिङ्गदर्शनं चाभिसम्बध्यते । लिङ्गलिङ्गिनोः सम्बद्धयोर्दर्शनेन, लिङ्गस्मृतिरभिसम्बध्यते । स्मृत्या लिङ्गदर्शनेन चाप्रत्यक्षोऽर्थोऽनुमीयते ॥" ३ न्या०म०(का०)द्वि०भा०पृ०२५, न्या० मं०(वि०)पृ०४५३ ४ कोऽयं प्रवरो नाम इति चिन्तनीयम् । न्यायसूत्रकारगौतमस्य विशेषणरूपेण 'प्रवर' इति शब्दः वार्तिककारेण वृत्तिकारेण च प्रयुक्त इति । यथा-'यदक्षपादः प्रवरो मुनीनां' (वाति क. पृ०२); 'एषा मुनिप्रवरगोतमसूत्रवृत्तिः' (वृत्ति०)। किन्तु अत्र विवक्षितः प्रवरः न्यायसूत्रकाराद् भिन्नः । प्रवरो भाष्यविवरणकारः इति चक्रधरस्य मतम् [39B] |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org