________________
का०पृ० ३१, वि०० ३४] न्यायमञ्जरीग्नन्थिभङ्गः
दर्शनसमनन्तरोत्पत्त्यवाप्तदर्शनच्छायेति । यथाऽर्थजत्वाद् दर्शनं देशकालाद्यवच्छिन्नस्य इदन्तयाऽर्थस्य ग्राहकं तथा दर्शनानन्तरमुत्पद्यमानो विकल्पोऽपि तच्छायाधारित्वादर्थप्रतिभासी भवन् प्रत्यक्षायते, यथा लाक्षानुरक्तस्फटिकशकलसमनन्तरवृत्ति स्फटिकशकलान्तरमपि लाक्षानुरक्तमिव प्रतिभासते तथा अर्थनिर्भासार्थजदर्शनाव्यवहितोत्पत्तिर्विकल्पोऽप्यर्थनिर्भास इवेत्यर्थः' । सामान्याकारप्रविष्ट इति । विकल्पारोपितयोरेव ह्याकारयोः प्रतिबन्धग्रहस्तादृशस्यैव चानुमेयतेति ।।
अन्यत्र प्रतिबन्धो वस्तुनोः । अन्यत्र तद्ग्रहणोपायोऽन्वयव्यतिरेकलक्षणः विकल्पारोपितधूमसामान्यस्य तदारोपितेनैव वहन्याकारेण, तयोर्गृहीतुं शक्यत्वात् । न धूमस्वलक्षणस्याग्निस्वलक्षणेन, तयोरन्यत्रावृ[15A]त्तेः । अन्यत्र प्रवृत्तिमाप्ती, बाह्ये बाह्योन्मुखतया प्रवृत्तेस्तस्यैव च प्राप्तेः । कैतवं द्यूतकारवृत्तमसमीक्ष्याभिधानात् । १ भधिगते तु स्वलक्षणे लत्सामर्थ्य जन्मा विकल्पस्तदनुकारी...। हेतुबि० पृ. ५३ । 'अधिगते तु स्वलक्षणे' आलोचनाज्ञानेन 'तत्सामर्थ्यजन्मा' स्वलक्षणाधिगमबलभावी 'विकल्पस्तदनुकारी' साक्षादनुत्पत्तेर्दर्शनसंस्काराधेयवशाच्च स्पष्टनीलस्वलक्षणाकारामुकारी दृश्यविकल्प्ययोश्चैकीकरणादेवमुत्त्यते । हेतुबि टी० पृ. ३३ । सर्व एव हि विकल्पोऽस्पष्टस्वलक्षणाभः । नौलादि पश्यतस्तु निर्विकल्पयतो यः स्पष्टार्थप्रतिभासाभिमानः स तद्विकल्पसमसमयजन्मनो निर्विकल्पस्य प्रसादात् । हेतुबि. टी.आ. प्र. २८७ । २ ननु लिङ्गमपि लिङ्गिवत् सामान्यमेव । तथा धूमः कृतकं वेत्येव न लिङ्गम् । कि तहि? वह्निकार्यतयाऽनित्यत्वव्याप्यतया च गृहीतम् । न च विशेषे व्याप्तिग्रहः । सामान्य च नाध्यक्षगम्यम् । विकल्पमात्रेण तत्प्रतीतावनाश्वासः । नैष दोषः । प्रत्यक्षेण कारणकार्ययोर्ध्यावृत्तिद्वयविशिष्टयोहीतयोविजातीयव्यावृत्त्याश्रयेणोत्पन्नविक. ल्पेन कचिदनुमानेन व्याप्तिं गृहीतवतः पश्चाद् धूमकृतकत्वादिदर्शनात् ताद्रूप्ये कार्यव्याप्यबुद्धिर्लिगबुद्धिः । सा च तत्प्रतिबन्धादनुमानमेवेति नास्त्यनाश्वासः। प्र०वा मनो०२.८१ । ३ तथाऽनुमानमपि स्वप्रतिभासेऽनर्थे ऽर्थाध्यवसायेन प्रवृत्तेरनर्थग्राहि । स पुनरारोपितोऽथों गृह्यमाणः स्वलक्षणत्वेनावसीयते यतः, ततः स्वलक्षणमवसितं प्रवृत्तिविषयोऽनुमानस्य । अनर्थस्तु ग्राह्यः । न्याय बि० टी०प्र०७२ । ननु च तथाविधं सामान्य विकल्पगोचरोऽवस्तु । तद्विषयत्वेऽनुमानस्य कथं बाह्य प्रवर्तकत्वं तत्प्रापकत्वं च, यतः प्रामाण्यमस्य स्यादिति चेत्। उच्यते,विकल्पाः खल्वेतेऽनाद्यविद्यावशात् स्वप्रतिभासमनग्निव्यावृत्तमवस्यन्तो बाह्योऽप्यनग्निव्यावृत्त इति तदध्यवसानमेव बायो बह्निरध्यव. सित इति मन्यन्ते । अनग्निव्यावृत्ततया बाह्यसदृशवन्यध्यवसाय एव बाह्यवहून्यध्यवसायः । तयोविवेकाप्रतिपत्तेः । अत एव ते विकल्या दृश्यविकल्प्यावर्थावे कीकृत्य बाह्य लोक प्रवर्तयन्ति ।... बाह्यसम्बद्धत्वाच्चानुमानविकल्पः संवादकः, अध्यवसेयापेक्षया च प्रमाणम् । तदाह न्यायवादी-"भ्रान्तिरपि सम्बन्धतः प्रमा' इति। धर्मोत्तरप्र० प्र०७८ । अनुमानस्य स्वर्थाविनाभावित्वं पारम्पर्येण द्रष्टव्यम् । धर्मोत्तरप्र०पृ०४० । लिङ्गविकल्पस्य च स्वलक्षणदर्शनाश्रयत्वात् परम्परया वस्तुप्रतिबन्धादविसम्बादकत्वम् मणिप्रभायामिव मणिभ्रान्तेः ।...न हि धूमस्व लक्षणस्य लिङ्गताऽवस्थापयितुं युक्ता, तस्यासाधारणस्य सपक्षे वृत्त्यभावात्...हेतुबि०दी. पृ०२४।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org