________________
१६
भट्टश्रीचक्रधरप्रणीतः
[का०पृ०२७, वि०पृ०२९
यते तदा [ यागस्यानुवा]] दादनूद्यमानत्वम्, गुणस्य विधातुमुद्दिष्टत्वादुद्देश्यत्वम्, तदर्थत्वेन गुणस्यावगमात् प्रधानत्वम् । तदेवं विधेयत्वमुपादेयत्वं गुणत्वमिति त्रिकमनुद्यमानत्वं निर्देश्यवं प्रधानत्वमिति त्रिकेण विरुध्यते' । तन्त्रेणाऽऽवृत्त्या वेति । यत्र द्वावर्धिनावर्थे युगपदेकं शब्दं प्रयोक्तुं प्रभवतस्तत्र तन्त्र्यवहार: यथैकं दीपं युगपद् बहवश्चिन्तकाश्छात्राः प्रयुञ्जते, यत्र तु युगपत् प्रयोक्तुम म सा) मा (म) तत्र तन्त्रप्रत्यनीकभूता आवृत्तिः, यथा असहभोजिनामेकं पात्रं युगपद्भुजि[ 14A] क्रियायामधिकरणभावमप्रतिपद्यमानं क्रमेण प्रतिपद्यते । आवृत्तौ हि पूर्वार्थसिद्धि सापेक्षत्वादुत्तरार्थसिद्धेयु(यु) गपत् प्रयोक्तृत्वाभावः ।
तदुक्तम् — अनलार्थ्यनलमिति । अनलस्यापि तत्र प्रतिभासान्न तिष्ठेदन्यस्यापि च प्रतिभासान्न प्रतिष्ठेत न गच्छेत् अनलार्थिनस्तदन्यप्रतिभा से कथं प्रस्थानं स्यादिति । इतरथा व्यवहाराभावादिति । यावत् तदितरव्यवच्छेदेन जलेऽजलरूपताया अभावेन जलमेवेति विकल्पेन न निश्चीयते तावत् तदर्थिनां तत्र प्रवृत्तिरूपो व्यवहारः कथं स्यादिति ।
उत्प्रेक्षामात्रनिष्ठितशक्तय इति । बहिरसन्नप्याकारोऽविद्योपप्लवाद विकल्पैरुत्प्रेक्ष्यते समुल्लिख्यते । तावत्येव च विकल्पानां व्यापारपरिनिष्ठा दृष्टा न पुनर्वस्तुदर्शनेऽपि । तथाहि - समस्तेन्द्रियवृत्तिव्यापारनिरोधे विकल्पयन्त उत्प्रेक्षामह इति वक्तारो भवन्ति न तु पश्याम इति । ज्ञायते बधिरादिष्विति । सति श्रवणेन्द्रिये ग्रहणाच्छ्रावणः शब्दो बधिरादिषु च श्रवणेन्द्रियवैकल्यादसति श्रवणे ग्रहणाभावादिति । अप्रत्यक्षोपलम्भस्य नार्थदृष्टि [ 14B] : प्रसिद्धयति । अप्रत्यक्ष उपलम्भो यस्यार्थस्य तस्य दृष्टिदर्शनं न प्रसिद्ध्यतीत्यर्थः । सापेक्षेणाप्यर्थशब्देन गमकत्वात् समासः ।
6
१ यजेत वाजपेयेन स्वाराज्यार्थीत्यसौ गुणः । नाम वा, गुणता तन्त्रयोगाद् गुणफलद्वये ॥ साधारणयजेः कर्मकरणत्वेन तन्त्रता । त्रिकद्वयं विरुद्धं स्यात् तन्त्रतायां फलं प्रति ॥ उपादेय-विधेयत्व-गुणत्वाख्यं त्रिकं यजेः । उद्देश्यानूक्तिमुख्यत्वत्रिकं तस्य गुणं प्रति ॥ न्यायमा० १.४. ६ । २ हेतुबि० पृ० ६७ । ३ व्यवहारेऽप्यन्यपरिहारेण प्रवर्तनात् । प्र०वा०स्वो० पृ०३८ । ४ दर्शनं चार्थसाक्षात्करणाख्यं प्रत्यक्षव्यापारः । उत्प्रेक्षणं तु विकल्प व्यापारः । तथाहि -परोक्षमर्थं विकल्पयन्त उत्प्रेक्षामहे न तु पश्याम इति विकलव्यापारमनुभवादध्यवस्यन्ति । न्यायबि०टी० पृ०८६ । ५ श्लोकवा • अनु० ६० । ६ प्र० वि० पृ० ९६ । चियाsतद्रूपया ज्ञाने निरुद्धेऽनुभवः कथम् । स्वं च रूपं न सा वेत्तीत्युसन्नोऽनुभवोऽखिलः ॥ धियाऽतद्रूपयाऽग्राह्यज्ञानस्वरूपया निरुद्धे ग्राह्ये ज्ञाने कथमनुभवः ? स्वकाले ज्ञानं न वेद्यते ग्राहककाले प्रायस्यैवाभाव इति कथं बुद्धिवेदनम् ? स्वं च रूपं स्वन्मते सा बुद्धिर्न वेत्तीत्यनुभवोऽखिलोऽर्थस्य ज्ञानस्य चोत्सन्नः स्यात् । ज्ञानप्रकाशो ह्यर्थप्रकाशः । स च स्वपरकालयोर्नास्तीति प्रकाशो न स्यात् सर्वस्य । प्र०वा० मनो २. ४२७ । तुलना - अप्रसिद्धोपलम्भस्य नार्थवित्तिः प्रसिध्यति । तत्त्वसं ०२०७४
Jain Education International
७
For Private & Personal Use Only
www.jainelibrary.org