________________
का०पृ०२६,वि०पृ०२८] न्यायमञ्जरीग्रन्थिभङ्गः कथं तद्विशेषणत्वं 'प्रापकं प्रमाणम्" इत्युक्तमित्यर्थः । अतोऽर्थप्रतीतिजनकं प्रमाणम् नार्थप्रापकमिति ।
विषयाकारपरिणतेन्द्रिये[13A]ति । विषयाकारपरिणतानामिन्द्रियाणां या वृत्तिर्विषयनिर्भासः प्रतिभासः, स च निर्भासो निर्विकल्पकरूपः, तदनुपातिनी तन्निर्भासा या बुद्धिवृत्तिनिश्चयात्मिका [सा] सविकल्पकज्ञानरूपा ।
यो हि जानाति बुद्धयत इति । ज्ञानबोधाध्यवसायानां साङ्ख्यैर्बुद्धिवृत्तिरूपतयाऽभ्युपगमात् । तथाहि-धर्मादिगुणाष्टकमध्येऽतीतविप्रकृष्टादिविषयोऽवगम आत्मविषयो वा बुद्धिगतो ज्ञानशब्देन निरुक्तः, अध्यवसायशब्देन चार्थनिश्चयः, बोधशब्देन चाध्यवसायजनको व्यापार इति । अचेतनत्वान्महत इति । अचेतनत्वं च विकारित्वादिसमनुगमात् । पुंसो बुद्धिवृत्त्यनुपातिता अवस्थाया धारित्वम् । साकार ज्ञानवादाच्चेति । अ[त्रा]पि बुद्धिवृत्तेविषयाकारनिर्भासपरिणामलक्षणाया अभ्युपगमात् ।
समाख्यानिर्वचनसामर्थ्यसहितादिति । समाख्यायाः समनुगताया आख्यायाः प्रमाणमित्यस्या यन्निर्वचनं 'प्रमीयतेऽनेन' इति व्युत्पत्तिस्तस्य यत् सामर्थ्य शक्तिविशेषस्तत्सहितात् सापेक्षाद् ।
राजा स्वाराज्यकाम इति । स्वेनात्मना राजते अन्यानभिभूयेति स्वराट् तस्य त(तद्?)[13B]विधीयते द्रव्यदेवतात्मककारकसम्पाद्यत्वाद् यागस्य । परस्परविरुद्धविध्यनुवादादिरूपापत्ते....[तस्मा]द्धि स्वाराज्यं प्रति यागस्य विधानाद् विधेयत्वम् , तत्सिद्धयर्थमुपादानादुपादेयत्वम् , तदर्थत्वेनावगमाद् गुणत्वम् । यदा तु गुणः तत्र विधी
१ नन्वर्थ क्रियाप्रापकत्वात् प्रमाणम् । प्रामाण्यं च किमर्थक्रियाज्ञापकमथ कारकम् ? न तावत् कारकत्वात् प्रमाणम्, करणं हि तदा स्यात् । अथ ज्ञापकत्वात् प्रमाणमुच्यते, तदप्ययुक्तम्, साधनज्ञानमन्तरेणापि अर्थक्रियोपलब्धा । प्रमाणवा०भा० पृ०२६। भर्थोऽप्यसावप्राप्तोऽपि शक्यप्राप्तिको दर्शित इति प्रापित उच्यते । अत एव प्रापणशक्तिरेव ज्ञानस्य प्रामाण्यम् । धर्मोत्तरप्र० पृ० १९ । प्रामाण्यं च......तत्प्रारणे शक्तिः । नन्वस्तु प्रापणे शक्तिः प्रामाण्यम् परमसौ नार्थादुत्पद्यते । रत्नकीर्तिनि० प्र० ९० । यस्मात् प्रापर्क विज्ञानं प्रमाण मिष्टमस्माभिः तस्मात् सा च प्रापणशक्तिरर्थपरिच्छित्तिरेव नार्थादुत्पत्त्यादिकमिति । न्या०बिष्टी.टि. पृ०४० । २ रूपादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः । सांख्यका० २८ । उभयात्मकमत्र मनः सङकल्पकम्...। सांख्यका. २७ । आह भवतु तावद् ग्रहणमात्रमिन्द्रियवृत्तिरप्रत्यया । ग्रहणप्रत्ययप्रकाशानामिदानी को भेदः? उच्यते-विषयसम्पर्कात् ताद्रूप्यापत्तिरिन्द्रियवृत्तिग्रहणम्, तथा विषयेन्द्रियवृत्त्यनुकारेण निश्चयो गौरयं शुक्लो धावतीत्येवमादिः प्रत्ययः । युक्तिदी० पृ. १०३ । आलोचितमिन्द्रियेण वस्तु 'इदम्' इति सम्मुग्धम् 'इदमेवं नैवम्' इति सम्यक् कल्पयति विशेषणविशेष्यभावेन विवेवयतीति यावत् । सांख्यत कौ० २७ । ३ मुद्रितमार्या तु वादांश्च इति पाठो वर्तते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org