________________
भट्टश्रीचक्रधरप्रणीतः
[का०पृ०२३. वि०पृ०२५
ननात् प्रमाणम् ,' तदितरस्य अननुकूलस्य विकल्पस्य ज[12 B]ननादप्रमाणम् , अजननात् प्रमाणं न भवति । अप्रमाणमिति पर्युदासवृत्त्या प्रमाणविरुद्धं गृह्यते, धर्मप्रतिषेधेनाधर्मवत् ; प्रमाणं न भवतीति तु प्रसज्यप्रतिषेधसमाश्रयणेन प्रमाणरूपताया एव निषेधः । स्थैर्य तु तदप्रमाणं विपरीतावसायकलुषितत्वादिति । क्षणिकताग्राहिप्रमाणेन क्षणिक इति योऽवसायो जन्यते तदपेक्षयैवमुक्तम् । दृश्यविकल्प्यावर्थावेकीकृत्येति । एकीकरणं कैश्चिदभेदग्रहणं व्याख्यातम् ; तद्ग्राहकमानाभावात् तषयित्वापरैर्भेदाग्रहणं दृश्य विकल्प्ययोरेकीकरणमुक्तं तदनेन सूचितम्-यदि वा अविवेकात् पतस्य प्राप्तिरिति । [दूरतस्तस्या इति] दर्शनं ततो व्यवसायस्तत इच्छा, अन्यानि च मध्ये ज्ञानानि ततः प्राप्तिरिति प्राप्तेरतिदूरगत्वं प्रमाणस्य ।
अर्थप्रतीतिरेव प्रमाणकार्याऽवधार्यत(ते) यतस्ततः सैव तस्य प्रमाणस्य विशेषणं युक्तम् 'अर्थप्रतीतिजनकं प्रमाणम्' इति, प्राप्तेस्तु प्रमाणकार्यत्वाभावात्
१ तस्मादध्यवसायं कुर्व देव प्रत्यक्षं प्रमाणं भवति । न्या.बिल्टी १.२१ । प्रत्यक्षं सन्निहि तरूपादिमात्रग्राहि विकल्पान्तरेणै कत्वाध्यवसाये सति प्रवर्तकम् । प्रमाणवा. भा० पृ० २१६ व्यवस्थापयतीति व्यवस्थापकः । स च तद्बलोत्पन्नोऽप्यनुरूपो द्रष्टव्यः । अननुरूपविकल्पेन व्यवस्थापितयोरपि व्यवस्थाप्यव्यवस्थापनयोरननुपपत्तेः । यथा मरीचीदृष्ट्वा तद्बलोत्पन्नेन विकल्पेनावस्थाप्यमानयोजलसारूप्यज्ञानयोने तथाभावः। धर्मोत्तरप्र. पृ०८४ २ नञ्समासे अब्रामागमानयेत्यत्र पूर्वपदे नव्युत्तरपदार्थसम्बन्धिनि क्षत्रिये लक्षणा । अघटः पट इत्यादौ पर्युदासार्थे नश्यपि सामानाधिकरण्याद् अभाववल्लक्षणा । व्यासेऽपि-न घटः पट इत्यादौ । यथा शुक्लपट इत्यत्र शुक्लवल्लक्षणा। न पचतीत्यादी क्रिया सम्बन्धे, भूतले न घट इत्यादौ प्रसज्यप्रतिषेधे तु नजो मुख्यार्थता । 'यजतिषु ये यजामहं करोति, नानुयाजेषु' इत्यत्र पर्युदासे नञ् । तेनायमर्थःनानुयाजेषु (अनुयाजव्यतिरिक्तेषु) यजतिषु, 'ये यजामह' इति मन्त्रं करोति, इति । तत्वचि. ४। प्रतिषेधपर्युदासयोः स्वरूपमुक्तमभियुक्तैः-प्रतिषेधः स विज्ञेयः क्रियया सह यत्र नञ् । पर्युः दासः स विज्ञेयो यत्रोत्तरपदेन नञ् । न्या०सि०म०प्र०४ पृ०४८ । ३ द्रष्टव्यम् वाचस्पत्यम प्र०४४९६४ व्याख्यातार एवं विवेचयन्ति, न तु व्यवहारः। ते तु स्वालम्बनमेवार्थक्रियायोग्य मन्यमानाः दृश्यविकल्प्यावावेकीकृत्य प्रवर्तन्ते । प्रमाणवा० स्वो०वृ० पृ०२५ । दृश्योऽर्थः स्वलक्षणम् । विकल्प्योऽर्थः सामान्यप्रतिभासः । तो एकीकृत्य स्वलक्षण मेवेदं विकल्पबुद्धया विषयोक्रियते शब्देन चोद्यत इत्येवमधि मुच्यार्थक्रियाकारिण्यर्थे प्रवर्तन्ते । प्रमाणवा०कर्ण० ती प०१७० । तथापि विकल्पज्ञानाद् बाह्याभिमुखी प्रवृत्तिस्तदथिनां न स्यात् । तस्मादलीकबाह्यमेषां विषयः । बाह्यमेदाग्रहश्चास्य बाह्यत्वं न पुनर्बाह्यामेदग्रहः, विकल्पगोचरे वाहो सदभेदग्रहस्थाशक्यत्वात् । तस्मान्निर्विकल्पकपृष्ठभाविनो विकल्पाः तदुपनीतबाह्यस्वलक्षणमेदं स्वग्राह्यालीकस्यागृह्णन्तः तदभिमुखं प्रवर्तयन्ति व्यवहर्तृन् अर्थिनः, पारम्पर्येण तत्सम्बन्धात् प्राप्तेन विसंवादयन्ति लोकम् । तेषां च विकल्पविषयाणां न तैरेव विकल्पैः परस्परतो भेदो गृह्यते नापि विकल्पान्तरैरिति मेदाग्रहादमे दमभिमन्यते पुरुषः । न्या० ता० टी० २.२.६५ (पृ. ८४५) । द्र० Buddhist Logic Vol. 1 पृ०४०३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org