________________
का०पृ०२३, वि०पृ०२५] न्यायमञ्जरोग्रन्थिभङ्गः तथा अध्यवसातुमशक्यमित्यर्थः ।
संवृत्या प्रमाणलक्षणमिति । सदृशक्षणसन्ततेरदृष्टान्तरालायाः समुत्पादात् तदेकत्वग्राहिणी बुद्धिस्तत्त्वसंवरणात् संवृतिः । सांव्यवहारिकस्य लोकव्यवहारप्रयोजनस्य, तेनैव तत्त्वव्यवस्थायाः कर्तुं शक्यत्वात् ।
यत्नसाध्यद्वयाभावादिति । यत्नेन हानं यत्नेन चोपादानं यत्नसाध्यद्वयम् । उभयस्य तुल्यकालहानोपादानस्य ।
न धीश्छत्रादिवदिति । छत्राख्यः शाकभेदः । काकोद(दुम्ब ?)रः कपिकच्छुः । अन्ये तु काकोदरवदिति पठन्तः काकोदरं सर्प व्याचक्षते ।
ननु यावान्प्रमाणस्य व्यापार इत्युपेक्षणीयमङ्गीकृत्याह ।
अनुकूलतदितरविकल्पोपजन[न]तदनुत्पादभेदादिति । अमुकूलविकल्पज१ गतिश्चेत् पररूपेण न च भ्रान्तेः प्रमाणता ॥ अभिप्रायाविसंवादादपि भ्रान्तेः प्रमाणता । गतिरप्यन्यथा दृष्टा पक्षश्चायं कृतोत्तरः ॥ प्रमाणवा० २.५५-५६। वस्तूत्पत्तेर. भ्रान्तिरिति चेत् । न । अतत्प्रतिभासिनस्तदध्यवसायात् । मणिप्रभायां मणिभ्रान्तिदर्शनेन व्यभिचारात । भ्रान्तरवस्तुसंवाद इति चेत् । न । यथोक्तेनैव व्यभिचारात् । वितथप्रतिभासो हि भ्रान्तिलक्षणम् । तन्नान्तरीयकतया तु संवादो न प्रतिभासापेक्षी । प्रमाणवा० स्वोवृ० पृ०३२ । २ असदूपपदार्थालम्बना हि संवृतिः तत्त्वसंवरणात् । प्रमाणवा० भा० प्र०२०३ पररूपं स्वरूपेण यया संवियते धिया । एकार्थप्रतिभासिन्या भावानाश्रित्य मेदिनः ॥ तया संवृतनानार्थाः संवृत्या मेदिनः स्वयम् । अमेदिन इवाभान्ति भावा रूपेण केनचित् ॥ बुद्धिः खलु तदन्यव्यतिरेकिणः पदार्थानाश्रित्योत्पद्यमाना विकल्पिका स्ववासनाप्रकृतिमनुविदधती भिन्नमेषां रूपं तिरोधाय प्रतिभासमभिन्नमात्मीयमध्यस्य तान् संसृजन्ती संदर्शयति । सा चैकसाध्यसाधनतया अन्यविवेकिनां भावानां तद्विकल्पवासनायाश्च प्रकृतिः यदेवमेषा प्रतिभाति । तदुद्भवा सा चेयं संवृतिः संव्रियतेऽनया स्वरूपेण पररूपमिति । प्रमाणवा०स्वो०० पृ०२४ संनियते आवियते यथाभूतपरिज्ञानं स्वभावावरणादावृतप्रकाशनाच्च अनयेति संवतिः । अविद्या मोहो विषयोस इति पर्यायाः । बोधिच०५० पू०१७० । प्रमाणमन्तरेण प्रतीत्यभिमानमात्र संवृतिः । प्रवा०भा० ३४ ३ प्रामाण्यं व्यवहारेण.. प्रमाणवा० १.७। सांव्यवहारिकस्येदं प्रमाणस्य लक्षणम् । संव्यवहारश्च भाविभूतरूपादिक्षणानामेकत्वेन संवादविषयोऽनवगीतः सर्वस्य । साध्यसाधनयोरेकव्यक्तिदर्शने समस्ततज्जातीयतथात्वव्यवस्थान संवादमवधारयन्ति व्यवहर्तारः । तदनुरोधात् प्रामाण्यं व्यवस्थाप्यते । तत्त्वतस्तु स्वसंवेदनमात्रमप्रवृत्तिनिवृत्तिकम् । मनो० १. ७ । ततो व्यवहारप्रसिद्धमवयविन एकत्वं समाश्रित्य यदेव दृष्टं तदेव प्राप्तमिति व्यवसायात् प्रमाणताव्यवहारः । स चैकत्वाध्यवसायो देशकालायभेदात् । तदभेदोऽपि तत्सामर्थ्यस्य सामग्रीजननात् । एवं भाविभूतयोरपि तदेकसन्तानपतितत्वेन समानार्थक्रियातश्चैकत्वाभिमानः । प्रमाण वा०भा०पू०२६।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org