________________
भट्टश्रीचक्रधरप्रणोतः [का०पृ०२२,वि०पृ०२३ गृह्यमाणं हि चिरस्थायीति गृह्यते' इति [बहट्टीका-] ; तदेवं वर्तमानक्षणग्रहणकालेऽनागताः क्षणा अगृहीता अपि तेन क्षणेनाऽऽक्षिप्ता इति नास्त्यगृहीतप्राप्तिः ।
अपरे वाहुः-सन्तानगतस्य क्षणविवेकस्यार्वा[11B]ग्दर्शनेन कर्तुमशक्यत्वान्नीलं यदा सन्तानान्तरव्यावृत्तेन रूपेण सामान्येन गृह्यते तदा सर्व एव क्षणा गृहीता भवन्ति,' सर्वेषां सन्तानान्तरव्यावृत्तत्वेनाविशेषात् । अनुमानात्तु विशेषः; अनुमानं विजातीयव्यावृत्तिमात्रविषयम्, इदं तु सजातीयविजातीयव्यावृत्तविषयमित्यास्तां तावदिदम् । अनुमानस्य त्वारोपितार्थविषयत्वेऽपीति । अनुमानग्राह्यस्य सामान्याकारस्य वक्ष्यमाणनीत्या प्रत्यक्षग्राह्यक्षणवद् बहिरसत्त्वादारोपितत्वं वह्निप्रतिबद्धधूमप्रदर्शनद्वारेणोत्पत्तेर्मूलभूतवस्तुक्षणपारम्पर्यप्रभवम्, मणिप्रभामणिबुद्धिवत् । तदुक्तम्
मणिप्रदीपप्रभयोर्मणिबुद्धयाऽभिधावतोः । मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ॥ [प्र. वा. २.५७] लिङ्गलिङ्गिधियोरेवं पारम्पर्येण वस्तुनि । प्रतिबन्धात् तदाभासशून्ययोरप्यवञ्चनम् ॥ इति [अ० वा० २.८२]
अध्यवसितस्यावस्तुत्वेऽपीति । प्रत्यक्षेणाध्यवसितो यः सन्तानः सोऽवस्तु यद्यपि तथापि तदध्यवसायजनकं दर्शनं वस्तुभूतस्वलक्षणप्रभवम् , अनुमेयाकाराध्यवसायश्च वस्त्वात्मकमूलभूता[12A)ग्निप्रतिबद्धधूमक्षणदर्शनप्रभव इति ।
अनुमाने तावत् प्रदर्शनमेव नास्ति, वस्तुतोऽवस्तुविषयत्वात् तस्येति शेषः । यथाध्यवसायमतत्त्वादिति । यथा अभ्यवसायः स्थितस्तथा पदार्थतत्त्वं न स्थितम्, अध्यवसायस्यावस्तुविषयत्वात्, यथा च सजातीयविजातीयव्यावृत्तं तत्त्वं स्थितं
१ तत्र यद्यपि वस्तुस्थित्या परिच्छिन्न-प्राप्ययोर्नानात्वं तथापि व्यवहारो निरन्तरापरापरोत्पत्तरविद्यावशाच्च हेतुफलरूपं क्षणप्रचयं तदेवेदमित्येकत्वेनाधिमुञ्चन्ति ततः परिच्छेदकालभाविनः प्रापणं सम्भवत्येव । धर्मो०प्र० पृ०२७ । तत्र प्रथमाक्षसन्निपाते एकक्षणावस्थायि वस्त्वसाधारणरूपं सजातीयेतरब्यावृत्तं स्वलक्षणसंज्ञितं प्रत्यक्षस्य ग्राह्यम् । गृहीतसन्तानश्च प्रत्यक्षपृष्ठभाविमो विकल्पस्याध्यवसेयः । प्रापणीयश्च प्रत्यक्षस्य सन्तान एव । क्षणस्य प्रापयितुमशक्यत्वात् । सन्तानशब्देन चाव्यक्तगृहीतवस्तुनः सदृशापरापरक्षणप्रबन्ध उच्यते । न्यायप्रवेशवृ०५० पृ०७४ । २ अनुमानं च लिङ्गसम्बद्ध नियतमर्थ दर्शयति । न्या०बि० टी० १.१ अनुमानस्य त्वर्थाविनाभावित्वं पारम्पर्येण द्रष्टव्यम् । धर्मो०प्र० पृ०४० । अर्थस्यासम्भवेऽभावात् प्रत्यक्षेऽपि प्रमाणता । प्रतिबद्धस्वभावस्य तद्धेतुत्वे समं द्वयम् ॥ प्रमाणवा० भा० ४११७३ द्र० टि०२पृ०११ ४ यो हि भावो यथाभूतः स तालिङ्गचेतसः । हेतुस्तज्जा तथाभूते तस्माद् वस्तुनि लिङ्गिधीः॥प्रमाणवा०२.८१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org