________________
का००२२, वि०पृ०२३] न्यायमञ्जरीग्रन्थिभङ्गः
पापणशक्तिः प्रामाण्यमिति' । यद्यपि तस्य ज्ञानस्य साक्षात् प्रापकत्वं नास्ति प्राप्तेरिच्छादिनिबन्धनत्वात् तथापि प्राङ्नीत्या प्रदर्शकत्वमेव प्रापणशक्तिः, प्राप्तौ सामर्थ्य प्रापकत्वम् । तथासति च तदेव प्रामाण्यमित्यर्थः । सन्तानमाप्तेः सन्तानाध्यवसायजननमेवेति । यो हि प्रापयितुं शक्यः स प्रवृत्तिविषयो भवति, यश्च प्रवृत्तिविषयः सोऽवश्यम् ‘इदमिदानीमिह' इत्यवसेयः; तच्चाध्यवसेयत्वं प्राप्यस्य क्षणस्य तदानीमसम्भा(म्भ)वात् तत्रासम्भवत्प्राप्यक्षणावयवभूतक्षणपरम्परा[11A]त्मके संतान' एव युज्यते इति प्राप्यत्वाकारः सन्तानाध्यवसायोऽवश्यमेषितव्यः ।।
___नन्वध्यवसायो विकल्पस्तस्य चारोपितार्थग्राहित्वात् कथं बाह्यविषयत्वम् ? उच्यते । प्रत्यक्षपृष्ठभावी हि विकल्पोऽविद्यानुभववासनावशादतव्यावृत्त्यात्मनाऽऽरोपितमाकारं गृह्णन्नुत्पद्यते, यदेव च तस्यारोपिताकारग्रहणं स एव बाह्याध्यवसायः; बाह्यस्यातव्यावृत्तेन रूपेणातव्यावृत्तिरूपविकल्पाकारसादृश्यात् । तस्मिन् गृहीते बाह्योऽध्यवसित इत्यभिमानात् प्रतिबिम्बे गृहीते मुखमवसितमितिवद् । न पुनर्विकल्पः स्वमाकारं गृहीत्वा ततो बाह्यमध्यवस्यति, क्षणिकत्वहानेः ।
'कथमन्यः क्षणो गृह्यतेऽन्यश्च प्राप्यते ?' इत्यत्र सौगता एवं समर्थयन्ते । प्रत्यक्षेण यः क्षणो गृह्यते सोऽवश्यमन्यक्षणजननस्वभावो गृह्यते, यथा भवद्भिरुक्तं 'रजतं
१ अस्तु पुरुषस्तथा प्रवर्तितोऽर्थस्तु न प्रापितः, तथा च व्यापारान्तरमन्याधीनमस्तीत्याहप्रापित इति । अर्थोऽप्यसावप्राप्तोऽपि शक्यप्राप्तिको दर्शित इति प्रापित उच्यते। अत एव प्रापणशक्तिरेव ज्ञानस्य प्रामाण्यम् । सा च प्राप्यादर्थादात्मलाभनिमित्तेति, यतो येन प्रवर्तते तदपि प्रापणयोग्यमेव । धर्मो०प्र० पृ०१९ । प्रामाण्यं च...तत्प्रापणे शक्तिः। रत्नकीर्तिनिब० पू० ९० । प्रापकत्वात् प्रमाणमिति चेन्न प्रापणयोग्यत्वात् प्रमाणस्य । प्रमाणवा० भा०पू०२२। २ सन्तानः समुदायश्च पङ्क्तिसेनादिवन्मृषा। सन्तानो नाम न कश्चिदेकः परमार्थसन् संभवति । कि तहि ? कार्यकारणभावप्रवृत्तक्षणपरम्पराप्रवाहरूप एवायम्, ततो व्यतिरिक्तस्य अनुपलम्भात् । तस्मादेते. षामेव क्षणानामेकपदेन प्रतिपादनाय सङ्केतः कृतो बुद्धैः व्यवहारार्थं सन्तान इति । बोधिचर्या०८.१०१। “नैव, सन्ततिशब्देन क्षणाः सन्तानिनो हि ते। सामसत्येन प्रकाश्यन्ते लाघवाय वनादिवत् ॥१८७॥ तत्वसं० । ३ नोच्यत इत्यादिना सिद्धान्तवादी त्वेवं मन्यतेसत्यं क्षणभेदेन वस्तुनो मेदोऽस्त्येव, किंतु क्षणापेक्षया न प्रामाण्यलक्षणमुच्यते, अपि तु सन्तानापेक्षया। ततश्च नीलादौ य एव सन्तानः परिच्छिन्नो नीलज्ञानेन स एव तेन प्रापितः । तेन प्रमाणं नीलज्ञानम्। न्या०बि०टी०टि० प्र०११ । नन्वेवमपि परिच्छेदकालवर्तिनः प्रापर्ण न सम्भवत्येव । सर्वस्यैव विषयस्य क्षणिकत्वात् । तथा चोपदर्शितार्थप्रापकत्वं नाम कस्यचिदपि ज्ञानस्य नास्तीत्यसम्भवितैव सम्यग्ज्ञानत्वलक्षणस्य स्यादित्याशक्याह-अमेदेति। अमेदेनैकरूपत्वेन तदेवेदमित्याकारेणाध्यवसायात् । उपादानोपादेयकृतक्षणप्रबन्धः सन्तानस्तद्गतस्तदाश्रितः। धर्मो० प्र० पू०२७ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org