________________
१०
भट्टश्रीचक्रधरप्रणीतः
[ का०पृ०१५, वि० पृ० १६
अथवा अर्थो निराकारज्ञानगम्यो न भवतीत्यादिना अनुमानादर्थव्यवस्थापनेsप्यनवस्थामाह-पुनरन्योऽर्थः कल्पनीय इति [9A] | साकारस्य ज्ञानस्याकारजनकोऽर्थोऽप्रतीयमानोऽप्यनुमानेन कार्यलिङ्गरूपेण कल्प्यते, तस्य कल्प्यमानस्य यद् ग्राहकं कार्यलिङ्गजमनुमेयज्ञानं तद् निराकारं कथं ग्राहकं स्यात् ?; अतस्तत्र तेनाकारोऽर्पणीय इति पुनरपि ज्ञानाकार एव संवृत्तः । पुनश्च तेन कार्येणान्योऽर्थः कल्पनीय इत्यनवस्था' । वस्तुस्वभावस्यापर्यनुयोज्यत्वादिति । यदि ब्रूयात् - तुल्ये कारकत्वे कथमर्थस्यैव प्रतिभास्यत्वं न चक्षुरादेरिति : तत्रोत्तरम् -' वस्तुस्वभावोऽयम्' इति । तथा च भवद्भिरपि पर्यनुयुक्तैः 'तुल्ये जनकत्वे कथमर्थस्यैवाकारग्राहि ज्ञानं नाक्षाणाम्' इति वस्तुस्वभावपथ इत्येवोत्तरं देयम् ।
शाबरा इत्यादिना भाट्टं पक्षमुपक्रमते । ज्ञातृव्यापारमन्तरेणेति । निःसंरम्भावस्थापरिहारेण विषयौन्मुख्यलक्षणा ससंरम्भावस्थाऽत्र ज्ञातृव्यापारः । नान्यथा ह्यर्थसद्भाव इति । दृष्टत्वविशिष्टार्थ सद्भावोऽन्यथानुपपद्यमानो ज्ञानं पश्चात् कल्पयतीत्यर्थदर्शनका ज्ञानावेदकप्रमाणाभावाद नाकारद्वयोपलम्भचोयप्रसङ्गावकाशः । पश्चात् प्रमाणमुपकल्प्यते । ज्ञानग्राहकं प्रमाण [9B] * ....
नाभाति स्मृतिरूपेण, प्रमोषाभावप्रसङ्गात् । न चाप्यनुभवात्मना । स्मृतेरनुभवात्मना प्रकाशे विपरीतख्यातिवादापत्तेः ।
धारावाहिष्विति । धारया अविच्छेदेन वहन्ति यानि तानि धारावाहीनि । चिरस्थायीति गृह्यत इति । अनिमेषदृष्टेरन्तरान्तरा त्रुट्यत्स्वभावपदार्थानबधारणात् चिरस्थायित्वग्रहः; तथा चाह - 'रजतं गृह्यमाणं हि चिरस्थायीति गृह्यते' इति [बृहट्टीका – ] |
प्रामाण्यं चाह जैमिनिः । ' औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञान - मुपदेशोऽव्यतिरेक धार्थेऽनुपलब्धे तत् प्रमाणं बादरायणस्यानपेक्षत्वाद्' इति [मी० सू० १. १.५] ।
१ साकारताच ज्ञाने साकारज्ञानेन प्रतीयते, निराकारेण वा ? साकारेण चेत्; तत्रापि तत्प्रतिपत्ती आकारान्तरपरिकल्पनमित्यनवस्था । प्रमेषकमल० पृ०१०८ २ यदि पुनर्विषयसामर्थ्यादक्षज्ञानस्योत्पादात् तत्र प्रतिभासमाने स प्रतिभासत एवेति मत तदप्यसम्यक्, करणशक्तेरपि प्रतिभासप्रसङ्गात् । तथा हि-न केवलं विषयबलाद् दृष्टेरुत्पत्तिः, अपि तु चक्षुरादिशक्तेश्च । अष्टस० पृ०११८ । अथ हेतुत्वं व्यवस्थापकम्य एवार्थों ज्ञानस्य हेतुः स एव वेद्यो नान्य इति चेत्, म, नेत्रादेरपि वेद्यत्वप्रसङ्गात् । शास्त्रदी० पृ० १७८ । ३ श्लो० वा०शून्यवाद का०१८२ । ४ दशमं पत्रं नोपलभ्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org