________________
का०पृ०१५, वि०पृ०१६] न्यायमञ्जरोग्रन्थिभङ्गः
अपि च कर्मणि ज्ञानं प्रमाणमिष्यते इति । कर्म हि विषयो भण्यते, विषयश्च स भवति यमालम्ब्य भूतमभूतं ज्ञानं सत्तां प्रतिलभते; न चा[8B]यं न्यायः सहोत्पद्यमानयोरस्ति । अत्रैव सामान्येन बौद्धदर्शनमात्राश्रयणेन ज्ञापकमाहयथोक्तम् सव्यापारमिवाभातीति' । ननु च साकारज्ञानवादिनामिदं वचनम् । तथा च पूर्वमर्धम्-'दधानं तच्च तामात्मन्याधिगमनात्मना' इति । अस्यार्थःतज्ज्ञानं तामर्थरूपतां दधानं सद् यदा स्वकर्मणि स्वस्मिन् विषये ग्राह्ये नियतार्थग्रहणलक्षणेन व्यापारेण सव्यापारं नियतार्थग्रहणलक्षणव्यापारयोगौवाभाति । तस्मात् सैवार्थाकारता प्रमाणम् , तद्वशाद् 'नीलस्येदं पीतस्येदम्' इति नियतनीलाद्यर्थग्रहणवदिव ज्ञानं लक्ष्यत इति तात्पर्यम् । बौद्धमते "निर्व्यापारत्वात् सर्वधर्माणाम् 'इव'शब्दोपादानम् । एवं च वैभाषिकमत इदं दूषणं कथं सङ्गच्छते ? सत्यम् । किन्तु स्वस्मिन् विषये.ज्ञानस्य प्रामाण्यं तैरपीभ्यते, अत एव तन्मतसंवादिन एव श्लोकाकारस्योपन्यासः कृतः। अथवा वैभाषिकैरनिष्यमाणमपि बलादेतदङ्गीकार्यम्, अन्यथा निर्विषयत्वे ज्ञानस्य योगाचारदर्शनापत्तिप्रसङ्गात् ।
१प्रमाणचा० २.३०८ । तुलना-"सव्यापारप्रतीतत्वात् प्रमाण फलमेव सत्" प्रमाणसमु० १. ८। २ साकारज्ञानवादिनां सौत्रान्तिकानाम् । ३ अर्थसारूप्यमस्य प्रमाणम् । न्या० बि० १. १९ ।.....प्रमाणं तु सारूप्यम्.......॥१३४४॥ तत्त्वसं० । तस्मात् प्रमेयाधिगतेः प्रमाणे मेयरूपता । साधनेऽन्यत्र तत्कर्मसम्बन्धो न प्रसिध्यति ।।३०६॥ प्र० वा०२ । तस्मात् प्रमेयाधिगतेः फलभूतायाः व्यवस्थाप्यायाः साधनं प्रमाणं मेयरूपता । अथ न सारूप्यं
तिविषयं भिन्नस्य सूपलक्षणत्वात् सारूप्यात् पुनरन्यत्र साधने तस्याः क्रियायाः कर्मसम्बन्धो नीलस्येयमधिगतिः पीतस्य चेत्यादि न सिध्यति । प्र० वा० मनो० । ४ निर्व्यापाराः सर्वधर्मा इति प्रमाणसमन्वृ०९। अत एवोक्तम्-निर्व्यापाराः सर्वधर्मा इति । प्र०वा०भा० पृ०३६६ । यस्मान्न पारमार्थिकः कर्तृकरणभावोऽस्ति क्षणिकत्वेन निर्व्यापारत्वात् सर्वधर्माणाम् । ज्ञानं हि विषयाकारमुत्पद्यमान विषयं परिच्छिन्ददिव सव्यापारमिवाभाति...तस्मात् साकारमेव ज्ञान प्रमाणं न निराकारम् । तत्त्वसं०पं०पृ०३९९ । ५ योगाचारदर्शने ज्ञानं निरालम्बनम् । इदानीमालम्बनप्रत्ययनिषेधार्थमाह-अन म्बन एवायं सन् धर्म उपदिश्यते । अथानालम्बने धर्मे कुत आलम्बनं पुनः ॥१०॥' मध्यमकशा० १ । यत् अन्त यरूपं बहिर्वद् अवभासते । बाह्याओं वस्तुतो नास्ति । अप्रतीतत्वात् । न दि युक्त्या विचारे नियततत्स्वरूपं बहिः प्रतीयते । यद्यपि बाह्यलक्षणं वस्तु सत् इति ते स्वीकुर्वन्ति तथापि न तत् विज्ञानालम्बन भवति, अतदाकारत्वात् न परमाण्वाकारोऽवभासते । आल०प० पृ०३७ । "नार्थो बाह्योऽस्ति केबलम्' प्र०वा. २.३३५ । नान्योऽनुभाव्यस्तेनास्ति तस्य नानुभवोऽपरः । तस्यापि तुल्यचोद्यत्वात् स्वयं सैव प्रकाशते ॥३२७॥ प्र० वा.२ । तस्माद् विभक आकारः सकलो वासनाबलात् । बहिरर्थत्वरहितस्ततोऽनालम्बना मतिः॥ अतः एव सर्वे प्रत्यया अनालम्बनाः प्रत्ययत्वात् स्वप्नप्रत्ययवदिति प्रमाणपरिशुद्धिः । तथाहि. इदमेव अनालम्बनत्वं यद् आत्माकारवेदनम् । प्र०वा०भा० प्र०२२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org