________________
भट्टश्रीचक्रधरप्रणीतः [का०पृ०१५, वि०पृ०१५ वदपि न परिगृहीतं भवतीति तात्पर्यम् । ननु फलात्मकत्वेन तस्यार्थाधिगमे व्यापृतस्वात् प्रमाणत्वं भविष्यति' तन्नेत्याह-प्रमाणाद्धि भिन्न फलमिति ।
अन्ये तुल्यसामय्यधीनयोरिति । मजनकोऽप्यर्थः [8A] सहभाविज्ञानेन गृह्यत इति निराकारज्ञानवादिनां वैभाषिकाणां दर्शनम् । अजनकस्य च ग्राहकत्वेऽन्यस्यापि तत्कालभाविनोऽर्थक्षणस्य तद् ज्ञानं किमिति न ग्राहकमित्यतिप्रसङ्गनिवारणाय तुल्यसामग्र्यधीनयोरित्युक्तम् । एकसामग्र्युत्पन्नत्वेन तस्यैव तद् ग्राहकं नान्यस्य; यथैतद्ग्रहणे तुल्यसामग्र्यधीनत्वं तस्य नियामकमस्ति तथाऽन्यग्रहणे न किञ्चिदस्तीत्यर्थः । पूर्वभावी स्वसन्तानगतसदृशक्षण उपादानकारणम् । यदुक्तम् -
__ "सभागहेतुः सदृशाः स्वसन्तानभुवो क्षणाः" इति [अभि० को० २. ५२] । तदन्यः सहकारिकारणम् । तथा चाहुः -
"ततोऽन्ये कारणं हेतुः सहभूर्ये मिथःफलाः" इति [अभिध० को० २. ५०] ।
यत्पुनर्द्वितीयमुपादानकारणलक्षणं कृतं - 'यदुत्पत्तौ यत् सन्ताननिवृत्तिस्तत्तस्यो पादानकारणम्' इति [ ] तद् विसदृशोत्पादाभिप्रायम् । तथाहि-घटोत्पत्ती मृत्पिण्ड पन्ताननिवृत्तिः; अनुत्पन्ने हि घटे मृत्पिण्डक्षणा एव सन्तानेनोत्पद्यन्ते घटे तूत्पन्ने घटक्षणा इति ।
१ सव्यापारप्रतीतत्वात् प्रमाणं फलभेव सत् । प्रमाणसमु० १. ८ अत्र बाह्यानामिव प्रमाणात् फलमर्थान्तरभूतं नास्ति । तस्यैव फलभूतस्य ज्ञानस्य विषयाकारतयोत्पत्त्या सव्यापारप्रतीततामुपादाय प्रमाणत्वमुपचर्यते। प्रमाणसमु० वृ० । अत्र वाह्यानामिव प्रमाणात् फलमर्थान्तरं नास्तीति अत्रापि तादृश एव दोषो न भवति । तस्यैवेत्यादिना अयमर्थः प्रकाश्यते........ ज्ञानस्याधिगतिरूपत्वात् साध्यत्वप्रतीतिरिति फलत्वमुपचर्यते । तस्यैव च विषयाकारपरिग्रहणकर्मणा व्यापारेण च सह प्रतीतिरिति प्रमाणत्वमुपचर्यते व्यपदिश्यते इत्यर्थः । विशाला० । तत्त्वसं० का० १३४४।न्यायप्र० पृ. ७। न्या० बि०१.१८-२१ । २ विषयैकत्वमिच्छस्तु यः प्रमाणं फलं वदेत् । साध्यसाधनयो दो लौकिकस्तेन बाधितः ॥४॥ छेदने खदिरप्राप्ते पलाशे न च्छिदा यथा । तथैव परशोलों के छिदया सह नैकता ।।७५।। प्रलो. वा० प्रत्यक्षसू० । वैशेषिकाणां केनचित् संवन्धेन “आत्मेन्द्रियमनोर्थसन्निकर्षाद् यन्निष्पद्यते तदन्यत्" [वै० सू० ३. १. १३] इति सौत्रं तावद् द्रव्ये प्रत्यक्षलक्षणम् । केचित् प्रमाणात् फलमर्थान्तरमिच्छन्तोऽसाधारण कारणत्वादिन्द्रियार्थसन्निकर्ष प्रमाणं प्रतिपादयन्ति । प्रमाणसम०७० (गा०) पृ० १६९ । उपलब्धिहेतुं च प्रमाणं वदता...हेतुपहणेन सारूप्यशक्तयोः फलादभिन्नयोरपाकरणाद् हेतुहेतुमद्भावस्य तादात्म्येऽनुपपत्तेरिति । न्या०वाता०टी० पृ०२१ (१.१.१)। ग्रन्थिरियं मुद्रितन्यायमचर्या नोपलभ्यते । अतोऽत्र काचित् फल-प्रमाणभेदाभेदविषया चर्चा मुद्रितमार्या भ्रष्टाऽनुमीयते । ३ एकसामग्रीजन्यत्वे तु जहानुभवयोः प्रतिनियतं वेद्यत्वं वेदकत्वं च स्यात् । तत्प्रतिबन्धाच्च नातिप्रसङ्गः । ज्ञानश्री. निब० प्र०४२१। एकसामग्र्यधीनत्वं कार्यकारणतादि च। समाश्रित्य भवेन्नाम भाक्तं भूतस्य वेदनम् ।। तत्त्वसं० २०४३ । ४ सन्तानकारणं यत् तु तदुपादान कारणम् । तन्निवृत्तौ भवेदस्य सन्तानस्य निवर्तनम् ।। प्रमा० वा. भा० पृ० ७८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org