________________
का०पृ०१४, वि०पृ०१५] न्यायमन्जरीप्रन्थिभक्तः
सन्निपत्यजनकत्वमिति । अन्यकारकव्यापाराव्यवधीयमानव्यापारत्वं सन्निपत्यजनकत्वम् । फलोत्पादाविनाभाविस्वभावो' यावन्न भवति तावत् कथमवश्यतया कार्यजनको भवेत्, तादूप्यं च सामग्रीतो नान्यस्येति ।
ननु मुख्ययोः प्रमातृप्रमेययोरिति । तत्कालं प्रमामकुर्वन्नपि योग्यतया यः प्रमातेति भण्यते स गौणः, यस्तु तत्कालमेव प्रमाजन्मनि व्याप्रियते स मुख्यः । एवं प्रमेयमपि ।
कारककलापनिष्पाद्यद्रव्यान्तराभावेऽपीति । विजातीयानां द्रव्यारम्भकत्वादर्शनादिति' भावः ।
तस्मात् कर्तृकर्मविलक्षणा संशयविपर्ययरहितार्थावबोधविधायिनी बोधाबोधस्वभावा सामग्री प्रमाणमिति युक्तमित्यत्र[7B] सामग्रीशब्दः समग्रप्रधानो द्रष्टव्यः। कर्तृकर्मव्यतिरिक्तं जनकं यत् तत् प्रमाणमित्यर्थः । अन्यथा ह्युपक्रमे कर्तृकर्मव्यतिरिक्तस्य कारकमात्रस्योदाहरणप्रदर्शनेन प्रमाणत्वं प्रतिज्ञायोपसंहारे सामग्रयास्त प्रतिपादनेनोपक्रमोपसंहारयोर्विरोधः स्यात् । एतच्च यथोपलब्धपाठानुसरणेन व्याख्यातम् । स्पष्टगमनिकाप्रायं चेत् पाठान्तरं कचिद्भवेत् , तत् सैव गमनिकाऽस्तु । एवमन्यत्रापि पाठानिश्चये द्रष्टव्यम् ।
तथा च संशयविपर्ययात्मकमिति । यदा करणसाधनेन प्रमाणशब्देन लोके व्यवहारः एवं सति फलस्य प्रमारूपस्याप्रामाण्यं सिध्यति । फलप्रमाणपक्षे पुनः संशयज्ञानस्य प्रमाणलक्षणविरहाद् यत्क्वचित् सिद्धं प्रामाण्यं 'संशयितोऽयमर्थः' इत्यादौ विशेषणत्वेन तद्धीयते । फलान्तराजनकत्वेन च यदप्रामाण्यमकारकस्य फलस्य,
१ अस्मिन् संदर्भ सप्तपद्यानि स्याद्वादरत्नाकरे (पृ० ६२-६४) भट्टजयन्तक'कपल्लवत उद्धृतानि, परं च मुद्रितन्यायमजर्या नोपलभ्यन्ते । तानि च यथा--"तत्रासन्दिग्धनिर्बाधवस्तुबोधविधायिनी । सामग्री चिदचिद्रूपा प्रमाणमभिधीयते ॥१॥ फलोत्पादाऽवि. नाभावि स्वभावाऽव्यभिचारि यत् । तत् साधकतम युक्तं साकल्यान परं च तत् ॥२॥ साल्यात् सदसद्भावे निमित्तं कतृकर्मणोः । गौणमुख्यत्वमित्येवं न ताभ्यां व्यभिचारिता ॥३॥ संहन्यमानहानेन संहतेरनुपग्रहात् । सामय्या पश्यतीत्येवं व्यपदेशो म दृश्यते ॥४॥ लोचनालोकलिङ्गादेर्निर्देशो यः तृतीयया । स तद्रूपसमारोपादुषया पचतीतिवत् ॥५॥ तदन्तर्गतकर्मादिकारकापेक्षया च सा । करणं कारकाणां हि धर्मोऽसौ न स्वरूपवत् ॥६॥ सामग्यन्तःप्रवेशेऽपि स्वरूपं कर्तृकर्मणोः। फलवत् प्रतिभातीति न चतुष्वं विनरुक्ष्यति ॥७॥ २ स्थाल्या. दिषु च तुल्य जातोयानामेककार्यारम्भदर्शनाद् भिन्नजातीयानामेककार्यारम्भानुपपत्तिः । न्या० भा०३. १.३२, ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org