________________
भट्टश्रीचक्रधरप्रणीतः का०पृ०१०,वि०पृ०१० संशयानुमानतत्वज्ञान[6B]रिति । संशये सति यद् अनुमानं तत उत्पद्यते यत् तत्त्वज्ञानम् , तद् निर्णयस्वभावमेवेति ।
आह च भाष्यकार इति । भाष्यकारो हि-सेयमान्वीक्षिकी प्रमाणादिपदार्थैः प्रविभज्यमानेत्येतत्सापेक्षत्वं श्लोकमिमं पपाठ-प्रदीपस्सर्व विद्यानामिति [न्या० भा० १. १. १]। सेयमान्वीक्षिकी' विद्योदेशाख्ये नीतिशास्त्रप्रकरणे [को० अर्थ० १. २] परीक्षिता । या सर्वविद्यानां मध्ये प्रदीप इव प्रदीपः, वेदप्रामाण्यकारणस्य तदर्थाधिगमोपायस्य च न्यायस्य प्रकाशनात् । उपायः सर्वकर्मणाम् । सुखावाप्ति-दुःखपरिहारार्थेषु कर्मसु प्रवृत्तिरनुमानात् तत्साधनत्वनिश्चये सति यतो भवति अतोsनुमान व्युत्पादकत्वादियं सर्वकर्मणां प्रवृत्तावुपायः। आश्रयः सर्वधर्माणाम् । धर्मस्वरूपमागमै फसमविगम्यम् । आगमः न्यायापेक्षः सम्यग्धर्मावबोधको भवति, नान्यथा । यद् आह--
आष धर्मोपदेशं च वेदशास्त्राविरोधिना ।
यस्तर्केणानुसंधत्ते स धर्म वेद नेतरः ॥१॥ [मनुस्मृति, १२. १०६] इत्यनतः(इत्यतः) तदधीनत्वाद् धर्मावबोधस्याश्रयः सर्वधर्माणामित्युक्तम् ।
अयथार्थः प्रमाणोदेश इति 'न चतुष्ट्वतिह्यार्थापत्तिसंभवाभावप्रामाण्यात्' न्या. सू० २. २. १]इत्यस्य वि[7A]भागाक्षेपसूत्रस्यावतरणिकायाम् 'अयथार्थः प्रमाणोदेशः' इति भाष्यकृद्विभागमुद्देशशब्देन व्याजहार ।
बोधावोधस्वभावेति । - विशेषणज्ञानादेर्बोधस्वभावस्य तत्रानुप्रवेशाद् बोधा बोधस्वभावेत्युक्तम् ।
चतसृषु विधास्विति । तत्त्वं परिसमाप्यते, अर्थः परिसमाप्तो भवति; नाधिकापेक्षोपयुज्यत इत्यर्थः ।
१ सांख्यं योगो लोकायतं चेत्यान्वीक्षिकी । धर्माधर्मों त्रय्यामर्थानथौ' वार्तायां नयापनयौ दण्डनीत्या बलाबले चैतेषां हेतुभिरन्वीक्षमाणा लोकस्योपकरोति व्यसनेऽभ्युदये च बुद्धिमवस्थापयति प्रज्ञावाक्यक्रियावैशारद्यं च करोति । प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम् । आश्रयः सर्वधर्माणां शश्वदान्वीक्षिकी मता ॥ कौ• अर्थ०१. २. १०-१२। २ न्या०भा० पृ०२।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org