________________
का०पृ०९,वि०पृ०१०] न्यायमञ्जरीग्रन्थिभङ्गः मुपसर्जनमतः पदान्तरसापेक्षं न समस्यते, इदं तु नोपसर्जनं प्रधानमतः पदान्तरसापेक्षमपि समस्यते' इति न कारणम् । विग्रहवाक्यसमासार्थ (मानार्थतेति:) वाच्यते । तर्हि विशेषतः गृह्यते निश्चीयते समासार्थः । तथाहि-राजपुरुष इत्यादौ किं 'राज्ञः पुरुषः' आहोस्वित् 'राजा पुरुषो यस्य' अथ 'राजा चासौ पुरुषश्च' इत्याद्याः शङ्काः राज्ञः पुरुषः' इत्यनेन निवर्तन्ते । तेन विग्रहवाक्येन तुल्यार्थता यत्र तत्र समासः । 'राजपुरुषः शोभनः' इत्यत्र 'राज्ञः पुरुषः शोभनः' इति विग्रहवाक्य समानार्थतया स[मासो], न प्रधानस्य सापेक्षत्वात् । 'ऋद्धस्य राज्ञः पुरुषः' इत्येतद् विग्रहवाक्यसमानार्थत्वाभाव(वा)द् 'ऋद्धस्य राजपुरुषः' इत्यसमासः, नोपसर्जनस्य सापेक्षत्वात्' । शब्दानु][6 A]शासनमित्यत्र शब्दानामनुशासनमिति समासः, केषां शब्दानामित्येतत्सापेक्षस्यापि 'शब्द'शब्दस्य, अन्यथा समासे गुणीभूतस्य केषामिति प्रत्यवमर्शो न स्यात् ।
अन्यज्ञानानौपयिका(क)मिति । अन्यज्ञानमनौपयिकमद्वारमनुपायो यस्य । उपाय एवौपयि कमिति स्वार्थे विनयादिपाठात् ठक् ह्रस्वश्च । अन्यज्ञानस्य वाऽनु. पायः सदपवर्गसाधनं न पुनः प्रमाणादिज्ञानमिव प्रमेयज्ञानोपायतयेत्यर्थः ।
उपमानं तु कचित् कर्मणि सोपयोगं गवयमालभेत' इत्यादौ ।
संशयमन्तरेण न्यायप्रवृत्तिरिति । यदा कार्यान्तरप्रयुक्तो देशान्तरं गच्छन् सहसैव धूमावलोकनादग्निमनुमिमीते तदा संशयं विनापि न्यायप्रवृत्तेरुपलम्भः ।।
स चाशयशुद्धिमुपदर्शयतुमिति । तर्कस्य प्राङ्नीत्या यद्यपि स्वतः साधनभावो नास्ति तथाप्याशयशुद्धिं वीतरागत्वं प्रकटयितुम् । तर्कक्रमेण स्वार्थानुमानकाले यथा प्रतिपन्नः स्वयमसावर्थस्तथैव परस्य प्रतिपाद्यते, वीतरागकथात्वाद् वादस्येति ।
१ "अत एव च–अत्रोत्तरपदार्थप्रधानता, अत्र पूर्वपदार्थप्रधानता--इति क्वचित् क्वचित् स्थापितम् । अन्यथा सर्वत्र उत्तरपदार्थप्रधानतैव स्यात् । यस्मादेवमाकाङ्क्षायां सम्बन्धः, तस्मात् प्रयोगसिद्धयर्थवेयमुपसर्जनसंज्ञा । “प्रथमानिर्दिष्टं समास उपसर्जनम्" पा० १.२.४३7 इति येयमेकदेशस्योपसर्जनसंज्ञा सा पूर्वनिपातमात्रसिद्धयर्था 'उपसर्जनं पूर्वम्" इति न पनरूपमन. त्वेन पदान्तरासम्बन्धार्था । कस्मादित्याह--अर्थसम्बन्धे हि यस्मादर्थाकाङ्क्षव हेतुर्नोपसर्जनता अनुपसर्जनता वा, कस्य गुरुकुलम् ? इत्येवमादिषु उपसर्जनात्मकस्यापि दर्शनात् । गुरुकुलम .. इत्युक्ते कस्य गुरुकुलम् -- इत्याकाक्षायां गुरुविशेषणैर्देवदत्तादिभिः सम्बन्धदर्शनात्-देवदत्तस्यइति । तथा चोक्तम्--"अथ शब्दानुशासनम् । केषां शब्दानाम् ? लौकिकानां वैदिकानां च" महाभाष्य १. १. १.] इति।" ऋजुविमला पृ० ५२-९३ । २ विनयादिभ्यष्ठक । पा० ५. ४. ३४ उपायो ह्रस्वत्वं च । वार्तिक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org