________________
का०पृ० ४५, वि०वृ० ४८ ]
निषेधयोश्च युगपद् वाच्यदशोपारोहाऽसम्भवादेकस्य वाच्यत्वमपरस्य प्रतीयमानत्वम् । अत्र च यद्यपि स्वत एव भ्रमणप्रवृत्तेरप्रवृत्तप्रवर्तनात्मकविध्यर्थाभावान्न मुख्यं विधित्वं तथापि स्वरससिद्धाया अपि भ्रमेः श्रभयान्निवृत्तायास्तन्निवारणेन यः प्रतिप्रसवः स एव विधिशब्देन निर्दिष्टः ।
न्यायमञ्जरीग्रन्थिभङ्गः
‘तरुण्येकाऽहमेवास्मि सार्धं दृक्छ्रुतिहीनया । श्रश्वा चिरगतो भर्ता' इत्येवंप्रायश्लोकैकदेशोऽयं 'पान्थ ! मा मे गृहं विश' । इति एतद् एतेनेत्यादिना निराकुरुते । अयमाशयः । वेदे शब्दनिबन्धनत्वादर्थव्यवस्थायास्तत्र यथाशब्दमर्थ - व्यवस्थाऽस्तु, लोके पुनर्ज्ञातमर्थे परं प्रतिपादयितुं शब्दान् प्रयुञ्जते ज्ञानं [30A] च प्रमाणान्तरात् । तत् शब्दप्रतिपादितं वस्तु यदि प्रमाणान्तरेण न विरुध्यते तद्यथावगतमेव ग्राह्यम्, विरोधे तु न, यथाऽविरोधो भवति तथा तस्यार्थो व्यवस्थाप्यः । तथाहि-यथा “गङ्गायां घोषः" इति लक्षणायां स्रोतोरूपस्यार्थस्याधारत्वानुपलम्भात् प्रमाणान्तरानुगुण्येन तटप्रतिपादन एव पर्यवस्यति शब्दव्यापारः, यथा च गौणे. ‘सिंहो माणवकः' इत्यादौ द्वयोरपरजात्योर्विरुद्धयोरेकत्र समावेशासम्भवाद् गुणविशेष एव शौर्यलक्षणे प्रतिपादनशक्तिः सिंहशब्दस्य, एवमत्र यद्यपि विधावभिधानशक्तिः पर्यवसिता तथापि तात्पर्यशक्तेरपर्यवसानाद् विधौ च पदार्थानन्वयाद् मा भ्रमीरिति निषेध एव झगिति वाक्यार्थतयाऽवभासते । ततोऽत्र यद्यपि वव्यापादनोपन्यासेन भयनिवृत्तिं कृत्वा भ्रमणमेव विधीयते तथापि दृप्तपदविशेषितसिंहपदार्थपर्यालोचनायां सदर्पपश्ञ्चाननबाधिताध्वप्रतिपादनेन सुतरां भय हेतूपन्यासाद् विरुद्धकारणोपलम्भाद् भ्रमणविधिर्न वाक्यार्थतामुपगन्तुमलम्, प्रत्युत तन्निषेधस्यैवोद्भूतनिमित्तत्वमि[30B]ति तस्यैव वाक्यार्थतोपारोहः । यद्यपि साक्षाल्लोटा प्रतिपाद्यमानो विधिः श्रूयते तथाप्यनन्वयवलाद् भ्रमेत्यनेन विपरीतलक्षणया भ्रमणनिषेध एव प्रतिपाद्यते । दृश्यते च विपरीत लक्षणयापि व्यवहारः । तथाहि - चन्द्रदर्शस्वभावाममावास्यां दर्श
१ अत्र विस्रब्धो भ्रमेति विधिवाक्ये तत्र निकुञ्जे सिंहस्तिष्ठति त्वं च शुनोऽपि बिभेषि तस्मात् त्वया तस्मिन् न गन्तव्यमिति निषेधः प्रतीयते । काव्यानु०वृ० १.१९ । द्र०ध्व० लोच० । २ एतन्नैयायिकानां मतम् । तस्य खण्डनं साहित्यदर्पणे ( ४.३ ) कृतमस्ति । "अत्र भ्रम धार्मिकेत्यतो भ्रमणस्य विधिः प्रकृते अनुपयुज्यमानतया भ्रमणनिषेधे पर्यवस्यतीति विपरीतलक्षणाशङ्का न कार्या 1 विधि - निषेधात्पद्यमानावेव निषेध-विध्योः पर्यंवस्थतः तत्रैव तदवसरः । यत्र पुनः प्रकरणादिपर्यालोचनेन विधिनिषेधयोर्निषेधविधी अवगम्येते तत्र ध्वनित्वमेव । "
५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org