________________
भट्टश्रीचक्रधरप्रणीतः [का०पृ०१, वि०पृ०१ फलेन स्वसंवेदनलक्षणेन वर्तत इति सफलः । सफलो यो ब्रह्मस्तम्बस्तस्य य आरम्भस्तन्निष्प[18]त्यर्थश्चेष्टाविशेषः स सफलब्रह्मस्तम्बारम्भः । सङ्कल्प एवेच्छाविशेष एवं' सफलब्रह्मस्तम्बारम्भो यस्य । न पुनरिच्छाजनितप्रयत्नपूर्वकोऽस्मदादीनामिव कार्यविशेषारम्भो भगवत इति स्तुतिर्गुणातिशयाभिधानरूपा । विचित्रसुख-दुःखसंवेदनस्य यद्यपि कर्मकृतत्वं प्राणिनां तथापीश्वरेच्छानिरपेक्षाणां तेषां न तत्र सामर्थ्य मिति वक्ष्यति । तथा चागमोऽपि-“अज्ञो जन्तुरनीशोऽयम्" इति । आरभ्यते वा येनारम्भःप्रयत्नः, सफलब्रह्मस्तम्बविषयारम्भः प्रयत्नः संकल्प एव यस्येति । न तु संकल्पादन्यः प्रयत्नस्तस्यास्ति, यद् वक्ष्यति ईश्वरसिद्धौ ‘प्रयत्नश्चास्य संकल्पविशेष एव' इति । यत् प्रयत्नेन सिद्धयति, तस्य-सत्यसंकल्पत्वाद् भगवतः-संकल्पेनैव सिद्धिरिति ततोऽन्यस्य [प्रयत्नस्य कल्पना निष्प्रमाणिकेति वक्ष्यमाणस्य तात्पर्यम् । अन्ये व्याचक्षते-संकल्पलक्षणेन फलेन सफलः सप्रयोजनो ब्रह्मस्तम्बारम्भो यस्य । स्वभावप्रवृत्तं स[कल्पमा]त्रमेव फलं प्रयोजनं प्रवर्तकं जगत्सर्गे भगवतः, पूर्णकाम' - त्वेनान्यस्यापेक्षणीयस्याभावात् । तथा चाह भगवान् व्यासः
१ सङ्कल्पानुविधायो चास्य धर्मः प्रत्यात्मवृत्तीन् धर्माधर्मसञ्चयान् पृथिव्यादीनि च भूतानि प्रवर्तयति। न्यायभा० ४. १. २१. । २ तदिच्छाप्रेरितानि कर्माणि फलमादधति, तदिच्छाप्रतिबद्धानि च तत्रोदासते । न्या. मं० (का०) पृ. १८६. (वि०) पृ. २०२. ईश्वरः कारणं पुरुषकर्माफल्यदर्शनात् । न्या. सू. ४. १. १९. पुरुषोऽयं समीहमानो नावश्यं समीहाफलं प्राप्नोति, तेनानुमीयते पराधीनं पुरुषस्य कर्मफलाराधनमिति, यदधीनं स ईश्वरः । न्या०भा० ४.१.१९. । ३ अज्ञो जन्तुरनीशोऽयमात्मनः सुख-दुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्ग वा वभ्रमेव वा ॥ महाभा. वन० ३०. २८ । ४ न्या.मं. (का०) पृ० १८५, (वि.) पृ. २०१ । ५ न च प्राप्तसकलप्राप्तव्यस्यास्ति प्रापणीयं किञ्चिदीश्वरस्य । तस्मात् कृतमस्य जगन्निर्माणेनेत्यत आहआप्तकल्प चेति । मा भूदस्य भगवतः स्वार्थः, परानुग्रहार्थं जगन्निर्माणे प्रवर्त्यतीत्यर्थः । न्यावा० ता० ४. १. २१. यत् खलु केचिदेवमाचचक्षिरे-प्रेक्षावत्प्रवृत्तिरिष्टार्थाधिगमा स्यादनिष्टपरिहारार्धा वा, न चेष्टानिष्टप्राप्तिपरिहारौ ईश्वरे समस्तावाप्तकामे सम्भवतः, तेनास्य जगन्निर्माणे प्रवृत्तिानुपपन्ना। तत्रोत्तरम्-"प्राणिनां भोगभूतये" इति । परार्था सिसृक्षायां प्रवृत्तिर्न स्वार्थनिबन्धनेत्यभिप्रायः । नन्वेवं तहि सुखमयीमेव सृष्टि कुर्याद् न दुःखशवलां करुणाप्रवृत्तत्वोदित्यत्रैषः परिहारः - "प्राणिनां कर्मविपाकं विदित्वा" इति । परार्थ प्रवृतोऽपि न सुखमयीमेव करोति, विचित्रकर्माशयसहायस्य कर्तृत्वादित्यर्थः । न चैव सति करुणाविरोधः, दुःखोत्पादस्य वैराग्यजननद्वारेण परमपुरुषार्थहेतुत्वात् । यदि धर्माधर्मी अपेक्ष्य करोति नास्य स्वाधीन कर्तृत्वमित्यनी वरतादोष इत्यस्यायं प्रतिसमाधिः--"आशयानुरूपैर्धर्म-ज्ञान-वैराग्यैस्वयः संयोजयति ।" स हि सर्वप्राणिनां कर्मानुरूपं फल प्रयच्छन् कथमनीश्वरः स्यादिति भावः । न हि योग्यतानुरूप्येण मृत्यानां फलविशेषप्रदः प्रभुरप्रभुर्भवति । न्यायक० पृ. १३२-३३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org