________________
का०पू०२, वि०पृ०२] न्यायमञ्जरीग्रन्थिभङ्गः
"न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु (किञ्चन] । [2 A] नानवाप्तमवाप्तव्यं प्रवर्ते चाथ कर्मणि ॥" [गीता, ३.२२]
फलस्य च प्रवर्तकत्वमग्रे प्रतिपादयिष्यते । यदि वा संकल्पेन सम्पद्यतामिदम्, इत्येवंरूपेण सत्यसंकल्पत्वाद् भ[गवतः सफलो निष्पत्तिलक्षणेन फलेन फलवान् ब्रह्मस्तम्बारम्भो यस्य । फलान्तराभिसन्धिनापि हि प्रवर्तमानानां कर्मस्वारम्भसमये समारभ्य निष्पत्तरेवेष्यमाणत्वात् फलत्वं दृष्टम् , इष्टलक्षणत्वात् फलस्य । तथाहि-कीर्त्यादिफलकामा ग्रन्थादि चिकीर्षन्तो ग्रन्थनिष्पत्तिरूपावान्तरफलनिष्पत्तये नमस्कारादि कुर्वन्तो दृश्यन्ते। स्तम्बः स्थावरस्तृण-गुल्मादिकः, तत्पर्यन्तं हि प्राणिनः कर्मवशात् संसरन्ति । तथा च स्थावरानधिकृत्याह मनुः
"एतदन्तास्तु गतयो ब्रह्माद्याः समुदाहृताः। घोरेऽस्मिन् भूतसंसारे नित्यं सततयामि(यि)नि ॥"
___ इति ॥[मनुस्मृति, १.५०] ॥ यद्यपि चास्मिन् दर्शने स्थावराणामा(म)चैतन्यं तथापि चेतनावत्सहचरितत्वात् सृष्टौ चेतनावदुपचारस्तेषाम् , दण्डिनो गच्छन्ति इतिवत् । यथा दण्डरहिता अपि दण्डिसाहचर्या[ द् ] दण्डिन इत्युपर्यन्त इति ।
संविधानामशिक्षिता इति ण्यन्ताच्छिक्षतेः स्वकर्मणि क्तः ।
योगसमाधिजेति । योगो [2 B] द्विविधः-सम्प्रज्ञातोऽसम्प्रज्ञातश्च। योग एव क्रमेण समाध्यवस्थामसम्प्रज्ञातत्वलक्षणां संप्राप्तो योगसमाधिः । केवलयोगग्रहणे क्रियमाणे संप्रज्ञातेऽपि स प्रत्ययः स्यादिति समाधिग्रहणम् । समाधिशब्दे तु योगशब्दं विनोक्ते यम-नियमादियोगाङ्गाष्टकमध्यवर्तिनि योगाङ्गे समाधौ प्रसङ्गो न निवर्तत इत्युभयग्रहणेनाभीष्टार्थप्रतिपादनाद् नास्ति पौनरुक्त्यम् । योग-समाधिशब्दयोहि पर्यायतया पौनरुक्त्यमाशङ्कते, तदेवं नास्ति । यदाऽऽत्मादेर्यथाभूतेन स्वरूपेण सम्यक् प्रकर्षण ज्ञानं तदा सम्प्रज्ञातो योगः सबीजः समाधिर्मण्यते । यदा तु विपर्ययोऽभ्यासक्रमेण स्वरूपेणाप्यात्मनः सम्प्रज्ञाताभावः तदाऽसंप्रज्ञातो
१. न्या. मं० (का.) पृ. ३२६-३३२, (वि०) पृ० ३५६-३६२ । २ यम-नियमासन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयोऽष्टावङ्गामि ॥ योगसू०२. २९। ३ योगस० १. ४१-४६। यस्त्वेकाग्रे चेतसि सद्भूतमर्थ प्रद्योतयति......स सम्प्रज्ञातो योग इत्याख्यायते । व्यासभा०१.१। सम्यक् प्रज्ञायते साक्षात्कियते ध्येयमस्मिन्निरोधविशेषरूपे योग इति संप्रज्ञातो योगः । योगवा० १.१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org