________________
भट्टश्रीचक्रधरमणीतः न्या य म ज री ग्रन्थि भङ्गः
॥ नमः शिवाय ॥ नमोऽनवसितासक्तचिक्रियाशक्तिसम्पदे । विष्णवे त्रिजगद्व्यापिपरमाश्चर्यमूर्तये ॥१॥ सङ्कल्पितफलावाप्तिकल्पपादपमञ्जरीम् । स्वान्तस्तापतमश्शा[न्त्यै मातृकां] नौमि चण्डिकाम् ॥२॥ मधुरासु प्रसन्नासु ग्रन्थयोऽतिरसास्वपि । जयन्तोक्तिषु दृश्यन्ते क्वचिदिक्षुलतास्विव ॥३॥ सुकुमाराशयाः केचित् सन्ति तद्भङ्गविक्लवाः । अतस्तेभ्यो व्यधत्ते[मं भङ्ग] श्रीशङ्करात्मजः ॥४॥ प्राप्य चक्रधरश्चक्रमिव सर्वविदः श्रुतम् ।
'शशाङ्कधरतोऽभेद्यप्रन्थिभेदाहितोद्यमः ॥५।। नमः शाश्वतिकानन्देति । आनन्दः सुखम् । ज्ञानम् अखिलार्थदृक् संवित् । ऐश्वर्यम् अणिमाद्यष्टगुणयोगः । शाश्वतिकानि नित्यानि च तान्यानन्दज्ञानैश्वर्याणि शाश्वतिकानन्दज्ञानेश्वर्याणि, तानि प्रकृतानि प्राचुर्येण प्रस्तुतानि यस्य स शा]श्वतिकानन्दज्ञानेश्वर्यमयः तादृगात्मा यस्य । प्राचुर्य द्विविधम्-सततावियोगो बाहुल्यं च । तदत्र सनतावियोगापेक्षया मयद । नित्यत्वं चैषाम् ईश्वरसिद्धौ वक्ष्यति । [ब्रह्म]ण आरभ्य स्तम्बपर्यन्तश्चतुर्दशविधो' भूतग्रामो ब्रह्मस्तम्बः । सङ्कल्पेन सफलः । सह
१ विश्वरूपटीका भट्टश्रीशशाङ्कधरपादस्य कृतिरिति चक्रधरेण निर्देशः कृतः द्वितीयाहिकप्रन्थिभने [44 B] | २ तत्राणिमा भवत्यणुः । लघिमा लघुर्भवति। महिमा महान् भवति। प्राप्तिःअङ्गल्यग्रेणापि स्पृशति चन्द्रमसम् । प्राकाम्यम्-इच्छाऽनभिघातो भूमावुन्मज्जति यथोदके। वशित्वम् भूतभौतिकेषु वशीभवति, अवश्यश्चान्येषाम् । ईशितृत्वम् तेषां प्रभवाप्ययव्यूहानामीष्टे । यत्र कामावसायित्वम् सत्यसङ्कल्पता यथा सङ्कल्पस्तथा भूतप्रकृतीनामवस्थानम् , न च शक्तोऽपि पदार्थविपर्यासं करोति, कस्मात् ? अन्यस्य यत्र कामावसायिनः पूर्वसिद्धस्य तथाभूतेषु सङ्कल्पादिति । एतान्यष्टावैश्वर्याणि । व्यासभा० ३.४५ । ३ तत्प्रकृतवचने मयट् । पा० ५. ४. २१ । तदिति प्रथमा समर्थ विभक्तिः, प्राचुर्येण प्रस्तुत प्रकृतम् । -काशिका। ४ न्या० मं० (का०) पृ० १८४-५, (वि०) पृ० २००-१ । ५ मनुस्मृतिः, प्रथमाध्यायः १-५० पद्यानि द्रष्टव्यानि । अष्टविकल्पो दैवस्तैर्यग्योमश्च पञ्चधा भवति । मानुषकश्चैकविधः समासतो भौतिकः सर्गः ॥ सा० का० ५३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org