________________
20
भावमापन्नमव्यपदेश्याधारं कार्यं निष्ठितं 'निष्ठा' इत्युच्यते, तस्य स्वकारणैः सत्तया च युगपत् सम्बन्धौ भवतः । भाष्यमपि 'परिनिष्ठां गच्छद्' 'गतम्' इत्येतमर्थ दर्शयति । यथा कारकान्तरमुत्पद्यमानं वस्तुभावमापन्नमव्यपदेश्याधारं निवृत्तं सत् स्वकारणैः सत्तया च सम्बध्यते तथा पटाख्यम् । ... तत्त्वोपनिलयनात् सदाद्यभिधानार्थं कारणसमवेतस्य वस्तुन उत्तरकालं सत्तासम्बन्ध इति बहूनां मतम् । वस्तुत्पत्तिकाल एवेति तु वाक्यकाराभिप्रायेोऽनुसृतो भाष्यकारैः । सिद्धस्य वस्तुनः स्वकारणैः सत्तया च सम्बन्ध इति प्रशस्तमतोऽभिप्रायः । पृ० ५०८-५१६ | निष्ठेत्यादि वाक्यं वाक्यनाम्नः कस्यचिद् वैशेषिकग्रन्थस्योक्तिः । वाक्यनामा ग्रन्थोऽयं भाष्येणालङ्कृत भासीत् । एतद्भाष्यं प्रशस्तपादभाष्याद् भिन्नमेव । किन्तु तद् रावणभाष्यापरनाम कटन्दीटी कातो भिन्नमभिन्नं वेति विकटसमाधानः पर्यनुयोगः । कोऽयं वाक्यनाम्नः प्रन्थस्य प्रणेता इत्यपि वयं न विद्मः । विस्तरार्थिभिः जैनमुनिश्री जम्बू विजयजी सम्पादितस्य चन्द्रानन्दवृत्त्यलङ्कृतवैशेषिकसूत्रप्रन्थस्य ( गायकवाडप्रन्थमाला, १३६ ) षष्ठं परिशिष्टं विलोकनीयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org