________________
का०पृ०१७३, वि०पृ०६१८] न्यायमञ्जरीप्रन्थिमनः
२४१ सामान्यं तु विशेषरूपरहितमिति । यथा प्रमाणेषु न प्रत्यक्षादि[57] विशेषशून्यमन्यत् प्रमाण पञ्चममस्ति तथात्रापि विरुद्धादिविशेषरूपशून्यं कथमन्यथासिद्धं सामान्यभूतं पृथण हेत्वाभासो भवेदिति एवंविधस्य चोधस्य बस्तुस्थितिर्न विषयः, वस्तुस्वभावोऽयं यद विशेषरहितमपि सामान्यं दृश्यत इत्यर्थः ।
अपसा पधि गच्छन्तीमिति । यस्त्वमय[सा] औषधी लुनासि स त्वं मम प्रियां दृष्टवानिति सम्बन्धः । किंभूताम् ? पथि गच्छन्तीं दीर्घलोचनां च ।।
__ अवगतिनियमितानन्यसल्कीर्णरूप इति । अनन्यसङ्कीर्णमेषां परस्परं रूपमित्यत्र किं प्रमाणमिति चेत् तदाह-अवगतिनियमितेति । रूपमेषामुपलभ्यमानं यतः परस्परासङ्कीर्णमवगम्यते तथा सिद्धमेव तेषां रूपमसङ्कीर्णमित्यर्थः ।
पक्षादौ वृत्ति.... पक्षकदेशवृत्तिरयं तु पक्ष........इत्यादिना वृत्तिभेदेन । छलस्तु एव............अन्यथासिद्धात्माविशेषनिष्ठम् । ब्राह्मणान् भोजयेत्यादौ तबालेन शिक्षितमिति ।.............
केनेशी सर्वजनानुकूलेति........
सहचरणादिसूत्रनिवेदितेति । 'सहचरण-स्थान-तादर्थ्य-वृत्त-मान-धारणसामीप्य-योग-साधनाधिपत्येभ्यो ब्राह्मण-मञ्च-कट-राज-सक्तु-चन्दन-गङ्गा-शाकटा-ऽन्नपुरुषेष्वतद्भावेऽपि तदुपचारः ॥' [न्यायसूत्र, २.२.६१] इति ॥ सर्वत्रि] यष्टिसाहचर्याद् यष्टिः ब्राह्मणः । [मञ्चाः क्रोशन्तीति मञ्चस्थाः पुरुषाः । कटा वीरणाः कटशब्देनोच्यन्ते । वृत्ताद् य[मो] राजा इति । आढकमिताः सक्तव आढकशब्दवाच्याः । तुलया धृतं चन्दनं तुलाचन्दनम् । गङ्गायाः समीपे गङ्गायाम् । कृष्णेन गुणेन युक्तः शाटकः कृष्ण इति । साधनात्—अन्नं प्राणा इति । कुलाधिपत्याद अयं पुरुषः कुलमित्युच्यते ।।
स तु सामानाधिकरण्येन वाहीकेऽपि प्रवर्तत इति । वाहीकं विशिष्टगुणसम्बन्धेनान्यस्मात् पुरुषादवच्छेत्तुमिति । गौणे हि प्रयोगो न लक्षणायामिति प्रभाकरलघुटीका । यस्य वाहीकस्य जाड्यादिगुणं प्रतिपादयति गो[शब्दः तस्य सामानाधिकरण्येन] तस्य प्रयोगः गौणे, न पुनर्लक्षणायां गङ्गाशब्दोऽन्यत्र सामानाधिकरण्येन प्रयुज्यत इत्यर्थः ।
भट्टश्रीशङ्करात्मजचक्रधरकृते न्यायमञ्जरीग्रन्थिभङ्गे एकादशमाह्निकम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org