________________
२४० भट्टश्रीचक्रधरप्रणीत
की पृ०१६२, वि०पृ०६०७ स्यै वेति । यथात्रैव योगाचारस्याज्ञानं तस्य परमाणूनामसिद्धत्वादिति, तस्य माध्यमिक प्रत्येवं ब्रुवत उभयोरज्ञानम् लौकिकानां तु संदेहः, कस्यचिद् विपर्यय इति । पदासिद्धाद्यपेक्षया वा अज्ञान-संदेह-विपर्यया व्याख्येयाः, यदाह भट्टः
अलक्षणमसिद्धं च पदाभासं स्वगोचरम् । सिद्धपोषधविज्ञप्तिपश्यनादि प्रकल्पयेत् ॥ हेतौ विवक्षिते तत्र पदासिद्धोऽभिधीयते । अन्यस्य वाचको यत्र शब्दोऽन्यत्र प्रयुज्यते ॥ तत्रासिद्धाभिधा हेतुर्विज्ञाने कायशब्दवत् । प्रामाण्यं बुद्धवाक्यादेः सर्वज्ञोक्ततया यदा ॥ साध्यते तत्र हेत्वर्थस्वरूपासिद्धता मता । [बृहट्टीका ?] इत्यादि ॥
यत्र सङ्कोचप्रमितसिद्धयोगत्वाच्चेतनास्तरवो जङ्गमशरीरवत्, चतुर्दश्यां हलेष्वयोजनं वृषाणां धर्मः पोषधत्वाद् यवसादिदानवदित्यादौ सिद्ध-पोषध-विज्ञप्ति]-पश्यमादिपदानां साधनप्रतिपादकत्वेन प्रयुक्तानां पदासिद्धताव्यपदेशः । तत्र बौद्धसिद्धान्तसमाश्रयणेन प्रयुञ्जानस्य वादिन एव स्वाज्ञान-संदेह-विपर्ययाः, प्रतिवादिनस्तु बौद्धस्याज्ञानमेव, बौद्धेन वा प्रयुक्तेषु प्रतिवादिनोऽज्ञानादय इति । एवंप्रकारभेदोपवर्णनमल्पप्रयोजनमिति । तथा च प्रकारभेदानाह भट्टः-.
पदासिद्धादयस्त्रेधा भिद्यते वाद्यपेक्षया । कश्चिद्धि वादिनोऽसिद्धः कश्चिद्धि प्रतिवादिनः ॥ उभयोरपि कश्चित्त सोऽपि भिन्नः पुनस्त्रिधा । प्रत्येकाज्ञानसंदेहविपर्यासनिरूपणात् ।। वादिना कश्चिदज्ञातस्तथाऽन्यः प्रतिवादिना । उभाभ्यामप[र]स्तद्वत् तत्संदेहविपर्ययौ । संदिग्धो वादिनो वा स्यादज्ञातः प्रतिवादिनः ।
तथैकस्य पदासिद्धस्तदाऽज्ञानादिभिस्त्रिभिः ॥ [ बृहट्टीका ? ] इत्यादि वितायमानं ग्रन्थगौरवमावहतीति अलम् ।
सिध्यन्त एव च सावयवकार्यानुमानमार्गेणेति । तत्र यावत् कार्यजातस्य प्रत्यक्षेण ग्रहणम्, तत्र तदेव प्रमाणम्, तत ऊर्ध्वमनुमानम्; तदपि हि 'कार्य स्वावयवाश्रितम्, सावयवत्वात् परिदृश्यमानकार्यवत्' इत्यादिना अष्टमाह्निकेऽनुमानं प्रतिपादितम् ।
तत्तु कचित् केवलमेव दृश्यत इति । यत्र केवलं दृश्यते तत्रासिद्ध एवान्तर्भाव इति भावः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org