________________
॥ द्वादशमाह्निकम् ॥ अ[थ] जातिलक्षणे । त्रैकाल्यसमादिष्वपि यादृशस्य तादृशस्य साधर्म्यवैधर्म्यप्रकारस्य योजयितुं शक्यत्वादिति । अहेतुः कालत्रयेऽप्यसाधकः, एवमस्य कालत्रयेऽप्यसाधकत्वादहेतुसाधर्म्यमिति भाष्यकृता प्रथमं साधनाभास एव जात्युत्तरोदाहरणं दर्शितमिति । "तेन हि क्रियावान् आत्मा द्रव्यस्य क्रियाहेतुगुणयोगात् । द्रव्यं लोष्टः क्रियाहेतुगुणयुक्तः क्रियावान् , तथा चाल्मा ।" न्यायभा०, ५.१.२] इति जात्युदाहरणरूपं स्थापनावाद्य(धु)दाहरणमुक्तम् ।
- चलनादिकर्मयोगेन गौस्तथात्वेन तत्साधात सिध्यतीति । गौरयं चलत्वाद् बाहुलेयवदित्यादि ।
तेनाविपरीततया शब्दोऽतिदिश्यत इति । तेन दृष्टान्तेनाविपरीततया तुल्यतया यथा घटस्तथा शब्द इत्यतिदिश्यते ।
यश्चोत्पत्तिधर्मकस्तस्योत्पत्तेरिति । अस्य व्याख्यानम्-पूर्वमुत्पत्त्या भवितव्यमिति ।
प्रागुत्पत्तेरलब्धात्मनः किमुद्दिश्यते किमुच्यते । नास्त्यत्र विमतिरित्यर्थः ।
उभयसाधात् प्रक्रियासिद्धेरिति । उभयेन नित्येनानित्येन च साधर्म्यात् प्रतिपक्षपक्षयोः प्रवृत्तिः प्रक्रिया । प्रकरणमनतिवर्तमान इति । निर्णयोत्पत्तौ प्रकरणनिवृत्तिर्भवति, प्रतिपक्षहेतौ च सति कुतो निर्णय इति । मूलहेतावपि साधर्म्यणेति । यदा स्थापनावाचेष साधर्म्य 58]मात्रे नित्यः शब्दोऽस्पर्शत्वादाकाशवदिति मूलहेतुत्वेन प्रयुङ्क्ते तदापि अनित्यः शब्दः प्रयत्नान्तरीयकत्वादित्यादि प्रयोक्तव्यमित्यर्थः ।
तदिह प्रकरणमुत्थापयता भवतेति । प्रकरणं प्रतिपक्षः । निर्णयोत्पत्तिनिमित्त प्रकरणोपरमायेति । एवं हि प्रतिषेधः सिद्धयति यद्येकतरपक्षनिर्णये व्यवस्थितं प्रकरणं भवति, न च निर्णयनिमित्तं किञ्चिदुक्तम्; उभयसाधाभिधानाद्धि संशयो भवति न निर्णय इत्यर्थः ।।
अर्थादापद्यते आकाशसाधान्नित्य इति । ननु साधर्म्यसमाभ्यो(मातो) ऽस्याः को भेद इत्याह-उद्भावनप्रकारभेदाच्चेति ।
अस्ति हि प्रतिषेधवाक्यस्य प्रतिषेधे(ध्ये ?)न साधर्म्यमिति । प्रतिज्ञाद्यवयववाक्यं पक्षनिवर्तकं प्रतिपक्षलक्षणं प्रतिषेधः, तस्य पक्षण प्रतिषेध्येन साधर्म्य प्रतिज्ञादियोगः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org