________________
का पृ०८४, वि०पृ०५१५] न्यायमञ्जरीप्रन्धिः
२१५ विशेषरूपं यस्य स बुद्धिकार्यविशेषात्मा । एवमपि समुद्रघोषादिरपि वाचकः प्राप्तः, इत्याह-स्वार्थगोचर इति । यो बुद्धिकार्यविशेषात्मा स्वार्थविषये बुद्धया लक्ष्यमाणः [33] स्वार्थे यो व्याप्रियते स बुद्धिकार्यविशेषात्मा अभिलापः । अभिलाप्यतेऽनेनेत्यभिलापः वाचकः न सर्व इत्यर्थः । तथाऽपरमाह
संसर्गात् परमाणवः परिणताः शब्दाः श्रुतेर्गोचराः । तभेदः प्रतिलब्धवर्णपदवाक्यात्माभिलापः स्वतः ॥ सिद्धार्थों यमुपेत्य वक्ति किमयं प्राहेत्यसङ्केतितः । स्वार्थेऽक्षादिव भेदकाङ्क्षणमनाः सामान्यवेदी जनः ।।
सिद्धिविनिश्चय, ९.१] परमाणवः परस्परसंसर्गात् परिणताः स्कन्धतामापन्नाः शब्दाः श्रुतेः श्रवणस्य श्रवणस्थानस्य वा गोचरा विषयभूताः । एवं सर्वे काकवाशितादयोऽपि वाचकाः प्राप्ताः, तदर्थमाह-तद्भेदस्तद्विशेषोऽभिलापो वाचको न सर्व इत्यर्थः । कोऽसौ तद्भेदः ? इत्याह प्रतिलब्धवर्णपदवाक्यात्मेति । अन्यश्च । कीदृक् ? स्वतः सङ्केतनिरपेक्षः सिद्धोऽर्थो यस्य स स्वतः सिद्धार्थसम्बद्ध इत्यर्थः । कथं स्वतः सिद्धार्थोऽभिलापः ? इत्याह-यमुपेत्येति । यमुपेत्य प्रतिपद्य श्रुत्या । किं वस्तु अयं शब्दः प्राहेति वक्ति जनः । किंभूतः ? असङ्केतितः सङ्केतरहितः । अतः कारणादसावभिलापः स्वतः सिद्धार्थः । किंभूतः पुनरेवं वक्तीत्याह-स्वार्थे सामान्यवेदी । स्वार्थे सामान्यविशेषात्मके सामान्यमानं प्रतिपद्य विशेषाकाङ्क्षणमनाः - विशेषकाङ्क्षणं विशेषार्थि मनो यस्य । दृष्टान्तमाह-अक्षादिव । यथाऽक्षात् सामान्य-विशेषात्मके पानकादौ द्रव्ये ग्राह्ये सामान्यमानं गृहीत्वा विशेषाकाङ्क्षी भवति-किमिदमास्वाद्यत इति । तद्वदिति । प्रसङ्गात् श्लोका अपि व्याख्याताः । तदेतदुभयमपि अनुपपन्नम् , प्रमाणाभावादिति दृष्टान्तदान्तिकत्वेनोपन्यस्य निराकृतम् , शब्दपुद्गलपक्षस्य च पूर्व निराकृतत्वाद् दृष्टान्तत्वेनोपादानम् ।
जरामर्यम् , जरामरणपर्यन्तम् । ब्रह्मणा हि स परिक्रीत इति । ब्रह्मणा वेदलक्षणेन मूल्येन आपणे स्वीकृतः । क्षीरहोता अध्वर्युः ।।
निदानानुपशमनादिति । क्लेशानां रागादीनां निदानानि कारणानि ।
विधिपदा(क्ष ?)स्र(श्र)वणादिति । तद्विषये हि विधौ प्राधान्याद् औपचारिकत्वासम्भवः । गङ्गायां[34] घोषः प्रतिवसतीति यथा न प्रतिवसनं प्रधानम् अत] उपचर्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org