________________
२१६
भट्टश्रीचक्रधरप्रणीतः [ का०पृ०८५, वि०पृ० १६५ ये चत्वारः पथय इति' । आदिपदेन 'ये चैते अरण्ये श्रद्धा-तप इत्युपासते' [
] इत्येवमादीनां परिग्रहः । पथयः पन्थानः । देवयाना देवत्वप्राप्तिहेतवः ।
अग्निसमारोपणविधिश्चेति । समारोपणं विलोड्य भस्मनः पानम् । अपरिपक्वकषाय इति । अस्यैवानुपशान्तराग इति पर्यायकथनम् ।
सर्वेषां सविपक्षत्वादिति । येन बाधकेन नैरात्म्यदर्शनेन विपक्षाः सर्वे [आस्रवा रागादयः । तस्य बाधकस्याभ्यासाद् नैरन्तर्येणोत्पादात् सात्मीभावः तन्मयत्वम् , तस्माद् बाधकसाल्भीभावात् । क्वचित् सन्ताने हि परं ते निह सातिशयाश्रिता अपकर्षोत्कर्षस्वभावाः, तथा चापकर्षोत्कर्षस्वभावत्वेन विपक्षाभिभवस्याप्यपकर्षोत्कर्षसिद्धिः । निर्हासधर्मत्वे तेषां विपक्षकृतस्याभिभवस्योत्कर्षः । अतिशयधर्मत्वे त्वनुच्छेदाद विपक्षकृतस्यापकर्षस्तदुच्छेदासमर्थत्वात् । आस्रवन्ति भवाग्राद् अवीच्यग्रं पातादित्यास्रवा रागादिदोषाः, आसयन्ति वाऽऽसंसारमित्यास्रवाः । तदुक्तम्
आसयन्त्यास्रवन्त्येते हरन्ति श्लेषयन्त्यथ । उपगृह्णन्ति चेत्येवमास्रवादिनिरुक्तयः ॥ [आभि० को० ५.४०] इति । न जातु कामः कामानामिति । काग्यन्त इति कामा विषयाः तेषाम् ।
भोगाभ्यासमनु भोगाभ्यासानन्तरमेव पुनस्तदुपभोगविषया रागा अभिलाषाः । कौशलानि चेन्द्रियाणां यद्बलादनिच्छयाऽपि तेषु विषयेषु प्रवर्तन्ते । ____ अत एव केचनेत्यादि अर्हदृष्ट्याऽऽह । यथोक्तस्य तत्त्वज्ञानलक्षणस्य । मलानामागन्तुकत्वादिति । यथा स्फटिकस्य स्वच्छस्यौपाधिको वर्णान्तरानुरागः, एवं स्वच्छस्यात्मनो मिथ्याज्ञानप्रभवो मलसम्भव इति । सूर्यस्येवाभ्रादिकावरणापगमे स्वरूपेणावस्थानमिति ।
१ तैत्ति०सं०५.७.२.८ । २ प्रमाणवा०३.२२० ३ तुलना-आसयन्ति संसारे आनवन्ति भवापाद् यावद् अवीचिं षड्भिरायतनव्रणैरित्यास्त्रवाः । अभिको भा०५.४०। हरन्तीति ओघाः । श्लेषयन्तीति योगाः। उपगृह्णन्तीति उपादानानि । अभि०को०भा०५.४०। १ मनुस्मृति २.९४ । ५ मुद्रितमजर्या तु 'मोक्षा” इति पाठः। व्यासभा०२.१५। ६ तत् सर्वथावरणविलये चेतनस्य स्वरूपाविर्भावो मुख्य केवलम्। प्र०मी० १.१.१५। अथ प्रकाशस्वभावत्व आत्मनः कथमावरणम् ? आवरणे वा सततावरणप्रसङ्गः, नैवम् ; प्रकाशस्वभावस्यापि चन्द्रार्कादेरिव रजोनिहाराभ्रपटलादिभिरिव ज्ञानावरणीयादिकर्मभिरावरणस्य सम्भवात् । चन्द्रार्कादेरिव च प्रबलपवमानप्रायै
निभावनादिभिर्विलयस्येति । प्र०मी०वृ०१.१.१५। प्रभास्वरमिदं चित्तं प्रकृत्याऽऽगन्तवो मलाः । प्र०वा.१.२१० । ततः क्षीयते प्रकाशावरणम् । तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याउलेयमल्पम् । योगसू०२.५२, ४.३१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org