________________
२१४
भट्टश्रीचक्रधरप्रणीतः [ का०पृ०८१, वि०पृ०५१२
यदि कर्म तन्निमित्तं तर्हि सर्वदा कर्मसद्भावाद मोक्षाभाव इत्याह--- तदागन्तुकमिति । आगन्तुकत्वेनानित्यत्वेन तत्क्षयात् कदाचिद् मोक्षसम्भव इत्यर्थः । यद्यागन्तुकं तत्कदाचिन्न भवेदपि । तदा संसारावस्थायामपि मध्ये कर्मवियोगादात्मानो मुक्ताः स्युस्तदर्थमाह-- तस्य प्रबन्धोऽनादिरिष्यते । अविच्छेदेन कर्माण्यनादिप्रवाहेण स्थिता - नीत्यर्थः । तथा
आत्मलाभं विदुर्मोक्षं जीवस्यान्तर्मलक्षयात् । नाभावो नाप्यचैतन्यं [न चैतन्यम् ] अनर्थकम् ॥ [ सिद्धिविनिश्चय, ७. १९] इति ॥
आत्मलाभं जीवस्य विकारापगमे सति मोक्षमाहुः । कुतः ? अन्तर्मलक्ष्याद्धेतोः । स त्वात्मलाभलक्षणो मोक्षो नाभावः सन्तत्युच्छेदलक्षणो यथाहुबद्धाः' । नाप्यचैतन्यं बुद्धिशून्यस्यावस्थानं यथाहुर्वैशेषिकादयः । नाप्यनर्थकं दृश्यार्थशून्यचिन्मात्रं यथाहुः साङ्ख्याः ै। किन्तु अनन्तज्ञानादिगुणयुक्तस्यावस्थानमित्यर्थः । तथा
अपरमाहुः
शब्दः पुद्गलपर्यायः स्कन्धः छायातपादिवत् । बुद्धिकार्यविशेषात्माभिलापः स्वार्थगोचरे ॥
Jain Education International
[सिद्धिविनिश्चय, ९.२] इति ॥
पुद्गलानां परमाणूनां पर्यायः क्रमभावी विकारः परिणामविशेषः शब्दः । स च स्कन्धः, अनन्तानन्तपरमाणुवत्त्वसंसिद्धेः । न तु दृष्टः क्वचित् स्कन्धरूपपर्यायः परमाणूनाम्, तदाह - छायातपादिवदिति । यथा छायारूप आतपादिरूपश्च पुद्गल - पर्यायः स्कन्धः तद्वच्छन्द इत्यर्थः । बुद्धिरेव श्रावणं ज्ञानमेव कार्यविशेषात्मा कार्य
..
१ यस्मिन् न जातिर्न जरा न मृत्युर्न व्याधयो नाप्रिय संप्रयोगः । नेच्छाविपन्नप्रियविप्रयोगः क्षेमं पदं नैष्ठिकमच्युतं तत् । दीपो यथा निरृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काश्चिद्विदिशं न काञ्चित् स्नेहक्षयात् केवलमेति शान्तिम् । सौन्दर० १६.२७ - २९ । प्रदीपस्येव निर्वाणं विमोक्षस्तस्य चेतसः । प्रमाणवा० भा०१.४५ । केचित् पश्यन्ति हातुः स्वरूपोच्छेद एव मोक्षः, तथाहु: - "प्रदीपस्येव निर्वाणं विमोक्षस्तस्य तायिनः" इति । न हि कचित्प्रेक्षावानामोच्छेदाय यतते । ननु दृश्यन्ते तीक्ग दोन्मूलितसकलसुखा दुःखमर्यामिव मूर्तिमुद्वहन्तः खोच्छेदाय यतमानाः । सत्यम् केचिदेव ते, नत्वेवं संसारिणो विविधविचित्रदेवाद्यानन्दभोगभोगिनः, तेsपि च मोक्षमाणा दृश्यन्ते । तस्मादपुरुषार्थ प्रसक्तेर्न हातुः स्वरूपोच्छेदो मोक्षोऽभ्युपेयः । तत्त्ववै०पृ०१८६ । २ नवानामात्मविशेषगुणानामत्यन्तोच्छित्तिर्मोक्षः । व्योम०पू०६३८ । ३ पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिः । योगसू०४.३४ ।
For Private & Personal Use Only
www.jainelibrary.org