________________
का पृ०८१, वि०पृ०५१२] न्यायमञ्जरीग्रन्थिभङ्गः
२१३ निराकरोति । एतदभ्युपगमे हि पुरुषस्यानित्यत्वं प्राप्नोति, कायपरिमाण[31]त्वेनावयवित्वापत्तेः । निरवयवे एवंरूपपरिमाणासम्भवात् । अमूर्तस्य च व्योमादेविभुत्वदर्शना]त् , परिणाम(माण)वतः क्रियावतश्चावश्यमनित्यत्वात् , सत्यपि बोद्धृत्वे तस्य सर्वार्थग्रहणायोगादित्यादिदूषणाघ्रातत्वादसम्भवित्वमस्य दर्शनस्य' । यथा शब्दपुद्गलाः सूक्ष्माः स्थूलशब्दात्मना विक्रियन्ते विपरिणमन्ते तथा जीवपुद्गलाः सूक्ष्मा जीवात्मना विक्रियन्ते विपरिणमन्त इति यद् मतं तदेव तु ग्रन्थकृता दूष्यत्वेनास्मिन् श्लोके विवक्षितमिति लक्ष्यते । दृष्टान्त-दार्टान्तिकयोयेवं स्फुटतरोत्वयो(रोऽर्थो)ऽवगम्यत इति । यथा वा अकलङ्कादयः स्थितास्तथाप्यसम्भवित्वमेव । ते ह्याहुः “ज्ञानसन्तानपक्षस्तावदनुपपन्नः, सर्वबुद्धिष्वेकस्य चेतनस्यानुवर्तमानस्योपलम्भात् । तत्र किं तस्य ज्ञातृत्वं ज्ञानसमवायाद् उत स्वतः ? तत्र न तावद् ज्ञानसमवायात् । समवायस्यैकवाद् व्यापकत्वाच्च यावत् तस्यासौ समवायो व्यतिरिक्तेन ज्ञानेन ज्ञातृत्वमापादयति तावदचेतनस्य घटादेरपि किमिति नापादयति । अथ समवायस्य स्वतः शक्तिविशेषः तादृगस्ति येनात्मन एव ज्ञातृत्वमापादयति नान्येषामिति, तात्मन एव तादृशः शक्तिविशेषो ज्ञातृत्वाख्यः कल्प्यताम् , किं समवायस्य तत्कल्पितेन । एवं तावद् ज्ञातृतास्वभाव आत्मा । तस्य ये पर्यायभाविनो मिथ्याज्ञातृत्वादयः स्वभावविशेषास्ते किं तद्धर्मसम्बन्धाद् आहोस्वित तेन रूपेण विकारित्वात् ? न तावद् धर्मसम्बन्धात् , धर्मेद्यस्योपकारः कार्यः, तेन च धर्माणाम् , उपकारप्रभावितत्वात् सम्बन्धस्य । न चाप्रवर्तमान उपकार्य उपकारको वा भवति । प्रवर्तते चेत् पूर्वमप्रवृत्तस्य प्रवर्तनाद् विकारित्वम् । एवमस्य स्वतश्चित्स्वभावस्य जीवस्य कर्मसम्बन्धवशाद् मिथ्यादर्शनादेर्विकारस्योदयः दृष्टः । वस्त्वन्तरसम्बन्धवशात् त्वस्य विकारयोगो यथा मदिराविषादिसम्बन्धाद् मूर्छितत्व-मृतत्वादिविकारप्रादुर्भावः । तदेवं वस्त्वन्तरं कमैंवास्य नानाविधविकारहेतुत्वाज्जीवस्य संसार[32] कारणम् , तत्परिक्षयात् मोक्षः" इति [ ] । यथाह अकलङ्कदेवः -
जीवस्य संविदो भ्रान्तेर्निमित्तं मदिरादिवत् । तत्कर्मागन्तुकं तस्य प्रबन्धोऽनादिरिष्यते ॥
सिद्धिविनिश्चय, ७. १२] इति ॥ अस्यार्थः । सम्यग् वेत्तीति संवित् । तस्य संविदः स्वतो ज्ञानस्वभावस्य जीवस्य भ्रान्तेर्मिथ्याज्ञानस्य कर्म निमित्तं नेश्वरादिकं मदिरादिवदिति व्याख्यातम् । • १ इ. सूशां०भा०२.२.३४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org