________________
२१२
भट्टश्रीचक्रधरप्रणीतः [का०पृ०८१, वि०पृ० ५१२ योऽयमर्थग्रहो द्रष्टुरक्षद्वारश्चिदात्मनः । शब्दादिविषयाकारस्त[ज्जा अदिति कथ्यते ॥१॥ तस्यैवार्पितसंस्कारवृत्तेर्मानसदर्पणे । स्मृतिर्भवति या भूयस्तामाहुः स्वप्नरूपकम् ॥२॥ यत्रार्थस्मरणे नष्टे ह्यद्रष्ट्रदृग्व्यवस्थितिः । अभावभावे संज्ञेयः सुषुप्त इति योगिभिः ॥३॥ अलुप्तवेदनावृत्तेरवस्थात्रयभाविनः ।
रूपस्य वेदिकामाहुस्तुर्यावस्थां मनीषिणः ॥४॥ [ ]
अवस्थाचतुष्टयोत्तीर्णं तु यदात्मनश्चिदूपतया स्वभावेनावस्थानं सा तुर्यातीता स्थितिरिति । आह च
त्रिप्रकारं यदा वेद्यं न वेत्ति स्वव्यवस्थितः । __ वेदकत्वं तदाऽनश्यत् तुर्यातीतस्थितिस्तु सा ॥ इति ॥ [ ] तं तुर्यावस्थातिगं रूपमित्यादिना निराकरोति ।
स्वच्छां वा ज्ञानसन्ततिमिति । समुच्छिन्नसकलवासनात्वाद् विषयाकारोपप्लवरहिताम्।
न केवलस्य तद्रूपमिति । तत् ज्ञानादिलक्षणं रूपम् , कैवल्यावस्थायामपि तस्य रूपस्याभ्युपगमे ऐकान्तिकत्वात् तस्य रूपस्यानैकान्तिकरूपत्वहानिप्रसङ्गात् । विकारित्वं तु जीवानामित्यादिना जैनमतं निराकरोति । इदं तेषां मतं भवतिबोद्धा पुरुषः, स च कायमात्रः सङ्कोच-विकासधर्मा मणिप्रभावदिति । तदनेन
१ जाग्रदादिक्रमेणैव स्थितोऽवस्थात्मनात्र वै। यादिवान्ते चतुर्वणे वर्गे विप्रेन्द्र सत्तमे ॥ तुर्यातीतात्मरूपेण शादिक्षान्तेषु संस्थितः ।...जाग्रत्स्व प्रसुषुप्तं च तुर्यमूर्वेऽत्र वर्तते । संस्थितः परमालोकशब्दो नित्योदितः परः ॥ परानन्दश्च समता वेद्यवेदकवर्जितः । स्वरूपमेतत् कथितं तुर्या. तीतात्मनो विभोः ॥ जयाख्यसंहिता, ६.१२-१३, १८-१९ । ज्ञानानन्दमये देवे वासुदेवे विलापयेत् । तुर्यातीते च तत्तुर्य लक्ष्मीनारायणात्मनि ॥ लक्ष्मीतन्त्रम् , २४.३१ । परमं यदहंताख्यं तुर्यातीतं तदुच्यते । परं ब्रह्म परं धाम लक्ष्मीनारायणं तु तत् ॥ लक्ष्मीतन्त्रम् , ५१.११ । २ चित्तमेव हि संसारो रागादिक्लेशदूषितम् । तदेव तद्विनिर्मुक्तं मोक्ष इत्यभिधीयते ॥ मृगेन्द्रतन्त्रे (पृ० ९४) उद्धृतम् । तत्त्वसङ्ग्रहपञ्जिकायां (कारिका ५४४) उधृतम् । मुक्तिनिर्मलता धियः । तत्त्वसं०, ५४४ । अन्ये तु सवासनक्लेशसमुच्छेदाद् विशुविज्ञानोत्पाद एव मोक्ष इत्याचक्षते । तत्त्ववै० पृ० १८६। ३ प्रदेशसंहारविसर्गाभ्यां प्रदीपवत् । तत्त्वार्थसूत्र ५.१६ । न तु क्षपणकानामिव देहप्रमाणत्वनियमादव्यापि ..मृगेन्द्रत. न्त्र पृ०५६ । घटप्रासादप्रदीपकल्पं सङ्कोचविकाशि चित्तं शरीरपरिमाणाकारमात्रमित्यपरे प्रतिपन्नाः । योगसू० व्यासभा० पृ०४०६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org