________________
का०पृ०६०, वि०पृ०४८९ ] न्यायमञ्जरीग्रन्थिभक्तः
२०५ हेतुत्वेन सङ्गतिः उपपद्यत एवेति दर्शयितुमुक्तम्-'चतुर[न त्वादिना परिमाणेन येऽन्विताः घटादयः तेऽप्येकेनात्मना मृत्वादिना संसृष्टा [23] उपलब्धाः' इति । व्याख्यातं च सविस्तरमिदं प्राक् । विषमप्रवृत्तयश्चेत्यादिना अविभागाद् वैश्वरूप्यस्येति हेतोस्तात्पर्य दर्शितम् । कार्येषु दृश्यन्ते शरीरादिषु । सत्त्वबहुलानि हि देवशरीराणि, रजोबहुलानि मनुष्यशरीराणि, तमोबहुलानि तिर्यक्शरीराणि' । अध्यवसायादिकर्मयोगिनमिति । न हि आत्मा व्यवस्यति निश्चिनोति गौ रेवायमित्येवमादि, अपि तु बुद्धिमध्यवस्यन्तीं पश्यत्येव स इति ।
निर्विकारा सती स्त[ब्ध]त्वात् ।
सा बुद्धिरध्यवसायात्मिका वृत्ति-वृत्तिमतोरभेदादध्यवसायलक्षणा वृत्तिरात्मा यस्याः। तद्विपर्ययेति । अधर्माज्ञानावैराग्यानैश्वर्याणि तद्विपर्ययः । स चाभिमानस्वभावः । अभिमानलक्षणं कार्य यतोऽहङ्कारस्य तेनाभिमानस्वभाव इत्युक्तः । वागादीनि पश्च कर्मेन्द्रियाणीति । ताल्वादिस्थानविकारहेतुत्वात् तेषामिन्द्रियत्वम् । ताल्वादिस्थानविकारभूतो हि शब्दः, तस्य विकारस्य हेतुर्वागिन्द्रियम् । एवमन्येष्वपि बोद्धव्यम् । गन्धादितन्मात्राणीति । मालतीकुसुमगन्धादिना · विशेषेणानाक्रान्ता गन्धाद्यविशेषावस्था तन्मात्रशब्दवाच्या ।
लिङ्गमिति । प्रधानस्य प्रमितस्य प्रल(च)यावस्था मूर्तिरूपा बुद्धयादिकोच्यते ।
प्रकृतेः सुकुमारतरमिति । यथा कुलाङ्गना सौकुमार्याल्लज्जान्वितत्वेन पुरुषेण च दृष्टा पुनस्तस्य दर्शनपथं नावतरत्येवं प्रकृतिः सर्वतो दृष्टा पुरुषेणेल्यतो निवर्तते, न पुनस्तस्य दर्शनमुपगच्छति ।
१ द्र० साका० ५४ । २ अध्यवसायो बुद्धिः... । सां.का. २३। एवं सति वृसिद्रष्टुरेव वृत्त्यारूढार्थद्रष्टत्वकल्पनोचिता...अत्रायं प्रमात्रादिविभागः -प्रमाता चेतनः शुद्धः प्रमाणं वृत्तिरेव च । प्रमाऽर्थाकारवृत्तीनां चेतने प्रतिबिम्बनम् ॥ प्रतिबिम्बितवृत्तीनां विषयो मेय उच्यते । वृत्तयः साक्षिभास्याः स्युः करणस्यानपेक्षणात् । साक्षाद् दर्शनरूपं च साक्षित्वं साङ्ख्यसूत्रितम् । अविकारेण द्रष्टुत्वं साक्षित्वं चापरे जगः ॥ योगवार्तिक १.७ । ३ 'भध्यवसायो बुद्धिः' (सां. का. २३)। क्रयाक्रियावतोरभेदविवक्षया......। सांतत्त्वको. २३ । ४ सात्त्विकमेतद्रूपं तामसमस्माद् विपर्चस्तम् । सां०का० २३। ५ अभिमानोअहङ्कारः.. ... सांका० २४ । ६ वाकपाणिपादपायूपस्थाः कर्मेन्द्रियाण्याहुः । सां०का० २६ । ७ लिङ्गं महदादिसूक्ष्मपर्यन्तं वक्ष्यति । सां०तत्त्वकौ० २० । हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । कारणानुमापकत्वाल्लयगमनाद् वा अत्र लिङ्गं कार्यजातम्, न तु महत्तत्वमात्रमत्र विवक्षितं हेतुमत्त्वादीनामखिलकार्यसाधारण्यात् । सां०प्रवचनभा०१. १२४। ८ सां०का० ६१। ९६. सातत्त्वकौ० ६१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org