________________
भट्टश्रीचक्रधरप्रणीतः
[ का०पू० ५९, वि०पृ० ४८७ वस्थितभावपूर्वकाः भेदाः कारणकार्यविभागात् परस्परोपकारकोपकार्यविभागाच्छयनाद्यङ्गवत् । खट्वादीनां ह्यवयवा आरभन्ते [ उत्तरकार्येण व्यवस्थिताः परस्परोपकारेण च वर्तमाना बुद्धिमदेककर्तृका दृष्टाः । [22] [वर्तन्ते चाध्यात्मिका बाह्याश्च भेदा इतरेतरोपकारेण, तस्मान्न ते यतस्तत आगता अपि त्वितरेतरौन्मुख्येन, अत एवैकरूपात्मनाऽवस्थितास्ते [त्रिगुणात्मके प्रधाने] यस्येदं विश्वं प्रेक्षापूर्वमिव कृतमवसीयते । इह पुरुषार्थप्रयुक्ता गुणा परस्परोपकारेण वर्तन्ते' । यथा सत्त्वं रजस्तमसोः शब्दादौ कार्ये श्रवणादौ च कारणे प्रवर्तमानयोः कार्यसम्पत्यर्थं प्रकाशयति । सत्त्व-तमसोः स्वस्व - कार्ये प्रवर्तमानयोः रजः प्रवृत्तिं करोति । सत्त्व- रजसोस्तु स्वकार्यप्रवर्तमानयोस्तमो नियमयति । यथा तथाविधकार्यसम्पत्तिरेवं शरीरादिपृथिव्यादीनां वृत्ति-संग्रह- युक्तिव्यूहावकाशदानैः परस्परार्थकरणं दृष्टम्, तदेवं परस्परोपकारकोपकार्यभावेनावस्थितं विश्वमवश्यमेककर्तृकमवसीयते । यश्चैकः कर्ता स त्रिगुणात्मकं प्रधानमिति । अविभागाद् वैश्वरूप्यस्य । इह विश्वरूपा बाह्याध्यात्मिका भावा अविभागा उत्पद्यन्ते वैश्वरूप्यात्, जलभूम्यविभागपूर्वकस्थावरजङ्गमवैश्वरूप्यवत् । देशादिप्रत्यासत्त्या
जलभूम्योः पारिणामिकं रसादिवैश्वरूप्यं स्थावरे दृष्टम् 1 स्थावराणां जङ्गमेषु, जङ्गमानां स्थावरेषु, स्थावराणां स्थावरेषु, जङ्गमानां जङ्गमेषु इत्येवंजात्यनुच्छेदेनोपादानकारणानुपदेन सर्वं सर्वात्मकम्, देशकालाकारनिमित्तानुबन्धात् तु खलु न समानकालं सर्वेषामात्मा [[म] नामभिव्यक्तिरिति । दृश्यते चेदं विश्ववैश्वरूप्यम् तस्मादविभक्तरूपसुखदुःखमोहरूपजातिपूर्वकमिति परमाविभागावस्थारूपप्रधानसिद्धिः । इयत्ता चतुर[]त्वादिना चेति । सूत्रैगतस्य परिमाणशब्दस्योभयथापि व्याख्याने
२०४
o
१ सति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य । सां०का० ६६ । पुरुषार्थौ च भोगविवेकौ प्रकृत्यारम्भप्रयोजकौ... । सां० तत्त्वकौ०६६ । अन्योन्याश्रयवृत्तयः... गुणाः 1 सा० का ० १२ । तथाहि - सत्त्वं प्रवृत्तिनियमावाश्रित्य रजस्तमसोः प्रकाशेनोपकरोति, रजः प्रकाशनियमावाश्रित्य प्रवृत्त्येतरयोः, तमः प्रकाशप्रवृत्ती आश्रित्य नियमेनेतरयोरिति । सां तत्त्वकौ० १२॥ एते गुणाः परस्परोपरक्तप्रविभागाः ... इतरेतरोपाश्रयेणोपार्जितमूर्तयः... पुरुषार्थकर्तव्यतया प्रयुक्तसामर्थ्याः ... । व्यासभा ० ( यो०सु० २.१८ । ) २ आह, कः पुनर्व्यक्तस्य परस्परस्य कार्यकारणभावः इति ? उच्यते, गुणानां तावत् सस्वरजस्तमस प्रकाशप्रवृत्तिनियमलक्षणैर्धमै - रितरेतरोपकारेण यथा प्रवृत्तिर्भवति, तथा प्रीत्यप्रीतिविषादात्मका इत्येतस्मिन् सूत्रे व्याख्यातम् । तथा शब्दादीनां पृथिव्यादिषु परस्परार्थमेकाधारत्वम् । श्रोत्रादीनामितरेतरार्जन - रक्षणसंस्काराः । करणस्य कार्यात् स्थानसाधनप्रख्यापनादिकार्यस्य करणाद् वृत्तिक्षतभङ्गसंरोहणसंशोषण परिपालनानि । पृथिव्यादीनां वृत्तिसङ्ग्रहपन्थिव्यूहावकाशदानैर्गवादिभावो... । युक्तिदी० पृ ६७ । ३ ६० माठरवृत्ति १५, व्यासभा० ( योगसू० ३.१४ ); नयचक्र ( जं० ) प्रथमभाग पृ० ११, ३२० । ४ अत्र चक्रधरेण साङख्यकारिकायाः 'सूत्र' व्यपदेशः कृतः । युक्तिदीपिकाकारोऽपि 'इत्येतस्मिन् सूत्रे' इति वदन् 'सूत्र' अभिधया कारिकां निर्दिष्टवान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org