________________
का पृ०५९, वि०पृ०४८७ ] न्यायमञ्जरीग्रन्थिभङ्गः
२०३ सुखमपरस्याप्रीतिः दुःखं कस्यचित् तु विषादं दुःखातिशयरूपं जनयन्तो दृश्यन्ते । यथा स्तनयित्नशब्दः कर्षकाणां प्रीतिनिमित्तम् , वियोगिनीनां तु दुःखस्य च विषादस्य च हेतुरिति । प्रकाशप्रवृत्तिनियमावगमाञ्चेति । यथा बुद्धेः प्रकाशकत्वं सत्त्वधर्मः, अर्थग्रहणं प्रति प्रवृत्तिर्या सा रजोधर्मः, नियतविषयप्रकाशकत्वं तमोधर्म इति'। एवमन्वयपुरःसराः परिमाणादिहेतव इति । यदुक्तम्
भेदानां परिमाणात् समन्वयाच्छक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद् वैश्वरूप्यस्य ॥ [साङ्ख्यका०, १५] इति ॥
प्रधानसिद्धौ पञ्चवीतहेतवोऽनेनोद्दिष्टाः, तत्र समन्वयोऽमुनैव व्याख्यातः । शिष्टा व्याख्यायन्ते । यथाहि-ये ये परिमिता उत्पद्यन्ते ते ते शक्त्यात्मना संस्पृष्टाः, तद्यथा अङ्कुरादयः परिमिताः कललार्बुदादयश्च, देशप्रमाणकालरूपजाति[21]प्रत्यासत्तिभिरनुक्रमेण चोत्पद्यमाना नूनं व्रीहौ शुक्रे शोणिते च संस्पृष्टाः । उत्पद्यन्ते च कार्यकारणात्मका आध्यात्मिका भेदाः षोडशसङ्ख्याकाः बाह्याश्च देवमनुष्य-तिर्यग्भेदात् त्रिविधाः । तेऽपि क्वचित् संस्पृष्टाः । यद्धि नियतपरिमाणं समुत्पद्यमानं दृष्टं महदादि तदेकत्र संस्पृष्टम् । अन्यथा नियतक्रमेण नियतपरिमाणस्योत्पत्त्यसम्भवात् । तथा चामी आध्यात्मिका बाह्याश्च भेदाः । तस्मात् तेऽप्येकत्र संस्पृष्टा जायन्ते । तेषां यत्र संसर्गोऽभूत् तत् प्रधानमिति । शक्तितः प्रवृत्तेश्च । इह त्रिकालावस्थित प्रकृ]त्यनुगताः कार्यकारणात्मका भेदा इति धर्मिनिर्देशः । शक्तिरूपैककारणपूर्वका इति साध्यम् । प्रवृत्तिदर्शनादिति हेतुः । परिनिष्ठितं कार्येण कारणरूपं मृदादिरथादिवत् । मृदादीनां रथादीनां च प्राक् प्रवृत्तेरस्ति प्रवृत्तिशक्तिः । कथमन्यथा घटादिकरणे वाहनादिकरणे च अशक्तत्वात् ते प्रवर्तेरन् ? प्रवृत्तिकाले चैषामस्ति प्रवृत्तिशक्तिरन्यथा ते कार्यमनारभेरन् । अतः प्रवृत्तिकाले शक्तेः सद्भावः । एवमूर्ध्वमपि प्रवृत्तिशक्तिसद्भावः, यतः निवृत्तव्यापारा अपि रथादयः शक्तेरनिवृत्तत्वात् तथाविधकार्यकरणे पुनः प्रवर्तमाना दृश्यन्ते । अन्यथा शक्तेरभावाद् न प्रवर्तेरन् । अतस्तेषां प्राग्भाविनी शक्तिः प्रवृत्तेः कारणम् । तेन ते शक्तिरूपैककारणपूर्वकाः । सन्ति चाध्यात्मिकानां कार्यकारणात्मकानां भेदानां प्रवृत्तयः । तस्मात् तेऽप्यवश्यं शक्तिपूर्वकाः। यत्र चैषां शक्त्यवस्था तत् प्रधानम् । कारणकार्यविभागादिति । इहा
१ प्रकाशप्रवृत्तिनियमार्थाः...गुणाः । सांका०१२ । २ तस्मात् प्राक् प्रवृत्तेः शक्तिः । यत्पुनरेतदुक्तं तावदेव प्रध्वंस इति अत्र ब्रूमः, न, कार्यनिष्ठादर्शनात् । युक्तिदी०पृ०६५ । ३ तस्मान्नास्ति शक्तीनां प्रवृत्तिकाले विनाशः । युक्तिदी० पृ०६६। ४ प्रवृत्त्युत्तरकालमपि नास्ति । कस्मात् ? पुनः प्रवृत्तिदर्शनात्। युक्तिदी० पृ० ६६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org